SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंचेंद्रियाणा दौःशील्यं व भवेद्भवदंतिके ॥ एकेंद्रियोऽपि यन्मुंचत्यनिलः प्रतिकूलतां ॥ १२ ॥ हे निर्मलन्यायनिलय भगवन् भवदंतिके त्वदुपांते हेयोपादेयकृत्याकृत्यविचारविशेषपुष्टहषीकपाटवानां पंचेंद्रियाणां | | तिर्यग्नरामराणां दौःशील्यं दुःशीलता प्रातिकूल्यं व भवेत्कथं जायेत । यद्यस्मादेकेंद्रियत्वेनैव विशिष्ट विचारविकलोऽनि-16 लोऽपि प्रतिकूलतां संमुखापातित्वं मुंचति परिहरति । किमुक्तं भवति । किल येन भगवत्प्रभावेणैकेंद्रिया अपि विनयं|2 ग्राह्यते तस्य पंचेंद्रियप्रातिकूल्यत्याजनं समीचीनमेव ॥ तथा भगवति विहरति दिव्यप्रभावात्तरवः शिरो नमयंतीत्येतदेव युत्तया व्यनक्ति ॥ | मूर्धा नमंति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः॥ १३ ॥2 हे भुवनमूर्धन्य स्वामिन्नासतां विकस्वरविवेकाः सुरनरादयः किंतु मुकुलितविशिष्टचैतन्यास्तरवः पादपा अपि मूर्धा | उत्तमांगेन प्रस्तावाद्भगवंतं नमति प्रणमंति। उत्प्रेक्षते । तव संबंधिना लोकोत्तरेण माहात्म्येन परमार्हत्यलक्षणेन चमत्कृता विस्मेरविस्मया इव । अतस्तेषामीपद्विवेकानामपि तत्रिभुवनप्रणते त्वयि प्रणतिपरं शिरः कृतार्थ नमस्यनमस्करणादेव कृतकृत्यं, मिथ्यादृशां मिथ्यात्वोपहतमतीनां पुनस्त्वय्युत्तानशिरसां तद्व्यर्थ निरर्थकमेव, वनपादपेभ्योऽपि निर्विवेकास्ते मुधैव मस्तकशून्या भुवि भ्राम्यति ॥ जघन्यतः कोटिसंख्यास्त्वां सेवंते सुरासुराः ॥ भाग्यसंभारलभ्येऽर्थे न मंदा अप्युदासते ॥१४॥ Jain Educat i onal For Private Personal Use Only Ww.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy