SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंचेंद्रियाणा दौःशील्यं व भवेद्भवदंतिके ॥ एकेंद्रियोऽपि यन्मुंचत्यनिलः प्रतिकूलतां ॥ १२ ॥ हे निर्मलन्यायनिलय भगवन् भवदंतिके त्वदुपांते हेयोपादेयकृत्याकृत्यविचारविशेषपुष्टहषीकपाटवानां पंचेंद्रियाणां | | तिर्यग्नरामराणां दौःशील्यं दुःशीलता प्रातिकूल्यं व भवेत्कथं जायेत । यद्यस्मादेकेंद्रियत्वेनैव विशिष्ट विचारविकलोऽनि-16 लोऽपि प्रतिकूलतां संमुखापातित्वं मुंचति परिहरति । किमुक्तं भवति । किल येन भगवत्प्रभावेणैकेंद्रिया अपि विनयं|2 ग्राह्यते तस्य पंचेंद्रियप्रातिकूल्यत्याजनं समीचीनमेव ॥ तथा भगवति विहरति दिव्यप्रभावात्तरवः शिरो नमयंतीत्येतदेव युत्तया व्यनक्ति ॥ | मूर्धा नमंति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः॥ १३ ॥2 हे भुवनमूर्धन्य स्वामिन्नासतां विकस्वरविवेकाः सुरनरादयः किंतु मुकुलितविशिष्टचैतन्यास्तरवः पादपा अपि मूर्धा | उत्तमांगेन प्रस्तावाद्भगवंतं नमति प्रणमंति। उत्प्रेक्षते । तव संबंधिना लोकोत्तरेण माहात्म्येन परमार्हत्यलक्षणेन चमत्कृता विस्मेरविस्मया इव । अतस्तेषामीपद्विवेकानामपि तत्रिभुवनप्रणते त्वयि प्रणतिपरं शिरः कृतार्थ नमस्यनमस्करणादेव कृतकृत्यं, मिथ्यादृशां मिथ्यात्वोपहतमतीनां पुनस्त्वय्युत्तानशिरसां तद्व्यर्थ निरर्थकमेव, वनपादपेभ्योऽपि निर्विवेकास्ते मुधैव मस्तकशून्या भुवि भ्राम्यति ॥ जघन्यतः कोटिसंख्यास्त्वां सेवंते सुरासुराः ॥ भाग्यसंभारलभ्येऽर्थे न मंदा अप्युदासते ॥१४॥ Jain Educat i onal For Private Personal Use Only Ww.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy