________________
वीतराग.
॥१३॥
Jain Education
भीतभीता इव स्वस्वोचितप्रसूनदलफलपटलोपायनपाणयस्ते स्वामिनमुपासते ॥ तथा यत्र किलार्हदेवस्थानं भवति तत्र | त्रिदशाः सुरभिसलिलं प्रसूतपटलं च मुंचंतीत्येतदेव स्तुतिकृद्भशयन्तरेणाह ॥
सुगंध्युदकवर्षेण दिव्यपुष्पोत्करेण च ॥ भावित्वत्पाद संस्पर्शां पूजयंति भुवं सुराः ॥ १० ॥
स्वामिन् सुराः सुधाभुजस्तावदास्ताममर्त्यपूजितं भवंतं यावद्भुवमपि पूजयंत्यर्चयंति, केन सुगंधिना सौरभ्यसंभृतघ्राणपुटस्योदकस्य सललिस्य वर्षणं वर्षस्तेन । तथा दिव्यानि मंदारपारिजातादीनि पुष्पाणि सुमनसस्तदुत्करेण प्रकरेण । कां भुवमित्याह । भावित्वत्पाद संस्पर्शी भावी भविष्यस्त्वत्पाद संस्पर्शो यस्यां सा तथा । अयमाशयः । किल “ यदध्यासितम - हद्भिस्तद्धि तीर्थ प्रचक्षत " इतिन्यायाद्भगवदध्यासितातस्तीर्थं तदर्चनीयैवेत्याह त्रिदशानां भगवति भक्त्यतिशयः ॥ तथा भगवंतमवनौ विहरतं पक्षिणः प्रदक्षिणयंतीत्येतदेव युक्त्या स्तुतिकृदाह ॥
जगत्प्रतक्ष्य वा यांति पक्षिणोऽपि प्रदक्षिणं ॥ का गतिर्महतां तेषां त्वयि ये वामवृत्तयः ॥ ११ ॥
हे जगत्प्रतीक्ष्य भुवनमहनीय भवंतमास्तां सुरनराः किंतु पक्षिणः शकुना अपि प्रदक्षिणीकृत्य यांति व्रजंति । ये तु | पक्षिणामपेक्षया जन्मना स्पष्टेंद्रियतया ज्ञानविज्ञानशालितया च महांतोऽपि जगद्वत्सले त्वय्यपि वामवृत्तयः प्रतिकूलाचरणास्तेषां का गतिः । इदमत्रहृदयं । किल नरकगतिस्तावत्सर्वजघन्या परं तत्रापि गतानां त्वत्प्रातिकूल्यकारिणां तस्मादेनसो मुक्तिरसंभाव्या तदधिका का दुर्गतिरस्तीत्यहो तेपामधमत्वं ॥ तथा भगवतो हि विहरतः पवनः पृष्ठप्रतिष्ठ एव संचरतीत्येतदेव भंग्याभिदधाति ॥
For Private & Personal Use Only
सविवर.
॥१३॥
w.jainelibrary.org