SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पुष्करिणीप्रभृतीन्येव नयनगोचरमवतरंति न पुनर्मलविलीनव्याधितमृतादीनि, तथा रसा अपि मृद्वीकाशर्कराखजूरनालिकेरेक्षुसहकारनारंगकदलीदाडिमीफलादीनां परिणतिर्न पुनः पिचुमंदघोषातक्यादीनां । तथा स्पर्शा अपि मृदुदुकूलपिहितशुचिहंसतूलीललितललनांगावयवादयो न पुनः खरशर्करकठिनाश्मकंटकादीनां । तथा गंधा अपि घनसारागरुमृगमदमलयजमंदारपारिजातकमलकुवलयचंपकवकुलकनककेतकमालतीपाटलादीनामेव घ्राणपुटसंतर्पणपटिष्ठा न पुनर्मतकलेवरलशुनादीनां । एवममी पंचापि विषयाः स्वामिसन्निधौ प्रतिकूलतां त्यजति। के इव तार्किका इव। यथा भगवद्गोचरोपगताः सौगतसांख्यशैवमीमांसकलोकायताः पंचापि प्रामाणिकाः प्रतिहतप्रातिभत्वेन विगलन्मदाः प्रतिकूलतां तद्वदेतेऽपीतिभावः । तथा ॥ त्वत्पादावृतवः सर्वे युगपत्पर्युपासते ॥ आकालकृतकंदर्पसहायकभयादिव ॥९॥ हे विश्वोपास्य भगवन् त्वत्पादौ त्वच्चरणनलिने ऋतवः सुरभिग्रीष्मवर्षाशरद्धेमंतशिशिराख्याः सर्वे पडपि पर्युपासते सेवन्ते । ननु ऋतुभिरवसरप्राप्तैर्जगदपि सेव्यत एव किमधिकं स्वामिन इत्याह युगपत्समकालं । सांप्रतमृतूपासने स्तुतिकृत् । कारणमुद्भावयन्नाह ॥ आकालेत्यादि । आकालमासंसारं कृतं निर्मितं भगवन्निग्राह्यस्य कंदर्पस्य कामस्य यत्सहायकं साहाय्यं उद्दीपनविभावा हि वसंतादयः स्मरविकाराणामतस्तद्भयादिव । किमुक्तं भवति । किल न खलु भक्त्या भगवंतमृतवः समुपासते, किंतु यथानेन महामोहोन्माथिना सपदि मन्मथः प्रमथितस्तथा मा नामास्मानपि तद्ह्यान्निग्रहीष्यतीति Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy