________________
Jain Education
जगति प्रार्थयितव्यमित्युत्कर्षाद्धर्षप्रकर्षमुद्वहति । ननु किमस्य भवद्भिः प्रसादचिह्नमुपलब्धं । उच्यते । गीतनृत्यानुरागप्रकटनानि हि प्रमोदचिह्नानि तानि चास्य स्फुटान्युद्धासंते । तथाहि । किं कुर्व्वन्नसौ मोदत इत्याह । गायन्निवालिविरुतैः अलिविरुतैः सौरभलोभोद्धांतभ्रमद्भ्रमरमधुकरझंकृतैस्त्वद्गुणान् गायन्निव । तथा यदि निसर्गत एव रक्तस्तथापि संभाव्यते । त्रिजगज्जनमनोरंगजीवातुभिस्त्वद्गुणैरिव रक्तः । समुचितं चास्य त्रिजगदुपरिवर्त्तिनस्तवाप्युपरि वर्त्तमानस्य प्रमोदमेदुरत्वं ॥ द्वितीयप्रातिहार्यमाह ॥
आयोजनं सुमनसोऽधस्तान्निक्षितबंधनाः ॥ जानुदनीः सुमनसो देशनोर्व्या किरंति ते ॥ २ ॥
त्रिभुवनमहनीयते तव देशनोर्व्या समवसरणभुवि सुमनसो देवाः सुमनसः पुष्पाणि किरंति विक्षिपंति । यदि पुनः पुरोभाग एव भगवत इत्याह । आयोजनं योजनप्रमाणं धर्मदेशनावनीमभिव्याप्य । तर्हि विरलविरला एव विस्तारिता भविष्यंतीत्याह जानुदनीर्जानूत्सेधाः । एवमपि कठिनवृंतघट्टितपदतलाः स्युरित्याह । अधस्तान्निक्षिप्तबंधनाः उपरि प्रेखोलहलपटला न्यक्कृतवृंताश्च । नच तावत्प्रमाणानामपि तासां कोटाकोटिप्रमितस्वच्छंद संचरदमरनरपादोपमर्द्दनवेदना मनागपि भवतीत्यहो प्रभावातिशयः प्रभोरिति ॥
तथा धर्मोपदेशावसरे हि भगवान् सुभगंभविष्णुना श्रोतृजनश्रोत्रपुटप्रविशत्पीयूष कुल्यातुल्येन निरायासप्रवृत्तेनैव स्वरेण देशनां विधत्ते किंतु वृत्तिकृत इव सूत्रं सुरास्तमेव स्वरमायोजनं विष्वग् विस्तारयति । अतो देवकृतत्वात्स दिव्यध्वनिरभिधीयते । तमेवाह ||
For Private & Personal Use Only
jainelibrary.org