SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सविवर. वीतराग. 11 यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ ४ ॥ ॥४३॥ हे परमार्हन्त्यश्रीसनाथ नाथ? तीर्थकृन्नामकर्मोपनिवन्धबन्धुरस्यायुषि प्रक्षीणे तथाविधशुभसंभारवशादुपनता मरुतां है देवानां श्रीलक्ष्मीर्यदा त्वयोपभुज्यते, यदा च स्थितिक्षयात्ततश्च्युतेनार्हद्भवे भोग्यफलकर्मोपनीता नरेन्द्रश्रीश्च त्वयोपभुज्यते, तदाप्यस्ति तव विरक्तत्वं, कथमित्याह-यत्र तत्र रति म यत्रैव यथैव स्थितिस्तत्रैव तथैव स्थितिः। किमुक्तं भवति-मरुन्नरेन्द्रश्रियोरुपभोगावसरेपि भगवान्नैवं विचिन्तयति (यदा) 'यत् साध्वियमुपनता श्रीर्यदि कथमपि न वियुज्यते तदा सुन्दरं स्यादिति' केवलमिदमेव विभावयति 'यत्तावदुपस्थितं ममेदं भोग्यफलं कर्म, नच वेदनमन्तरेणैव क्षीकायते' इति रुक्प्रतीकारधिया अनासक्त एव भुङ्क्ते । तथा च पठन्ति “ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्य मेवे भोक्तव्यं कृतं कर्म शुभाशुभमिति” अतस्तदाप्यस्त्येव तत्त्वतस्त्रिजगद्गुरोर्वैराग्यमिति ॥ | नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ ५॥ ___ यदा च त्वं भोग्यफलकर्मणः क्षये, नित्यमेकान्ततः, कामेभ्यः पञ्चप्रकारेभ्यो, विरक्तो विरागमुपगतः सन् , योगं ज्ञानदर्शनचारित्ररूपं, प्रपद्यसे स्वीकरोषि तदाप्येभिरत्यन्तदुरन्तविपाकैः कामभोगैरलं पर्याप्तमिति विभावयतस्तवास्त्येव प्राज्यमभङ्गुरं वैराग्यमिति ॥ किंच १ हिरधिकोऽत्र । यद्वा सर्वजातीनां संकरत्वाभ्युपगमात्संकरोऽयमपि । ECRECRUCIECRUAROGRADES ॥४३॥ Jain Educationa lonal For Private & Personal Use Only daw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy