________________
Jain Education
सुखे दुःखे भवे मोक्षे यदौदासीन्य मीशिषे । तदा वैराग्यमेवेति कुत्र नासि विरागवान् ॥ ६ ॥
यदाच योगप्रतिपत्तेरनन्तरं क्षणे २ विशुद्ध्यमानाध्यवसायः परिपाकोन्मुखे योगसमृद्धिफले सुखे साते, दुःखे असाते, भवे संसारे, मोक्षे महोदये, औदासीन्यमीशिषे सुखदुःखभवमोक्षेषु । तथा वीतरागत्वात्स्वभावादेव समानमानसो भवसि | तदा व्यक्तमेव तव वैराग्यमित्येवं कुत्र कस्मिन्नवस्थान्तरे, विरागवान्नासि ? सर्वत्र विरक्त एवेति भावः ॥ ननु परपरिगृहीतेषु दैवतेष्वस्त्येव वैराग्यं किमधिकं वीतरागस्येति चेदाह
दुःखगर्भे मोहगर्भे वैराग्ये निष्ठिताः परे । ज्ञानगर्भं तु वैराग्यं त्वय्येकायनतां गतम् ॥ ७ ॥
हे निरवग्रहवैराग्यपरभाग भगवन् ! परपरिगृहीताप्तानां स्त्रीशस्त्राक्षसूत्र रागाद्यङ्ककलङ्कितवपुषामसंभावनैव वैराग्यस्य । अथैवमभ्युपपद्यते तदा परे त्वदितरे देवादयो, दुःखगर्भे मोहगर्भे च वैराग्ये निष्ठिताः, तत्रेष्ठवियोगानिष्टयोगादिदुःखहेतूपगमे यत् क्षणिकं वैराग्यं तत् दुःखगर्भ, यच्च कुशासनप्रणीताध्यात्मलवश्रवणेन केषाञ्चिद्राज्यादिपरिजिहीर्षा यमनियमादिचिकीर्षा च भवति तदप्य सर्वज्ञोपज्ञत्वेन मुक्तेरहेतुत्वेन मोहगर्भमज्ञानग्लपितमेव वैराग्यं यत्तु सद्भूतवस्तुतत्त्वोद्भावनसमुद्भूतमनित्यतादिशुभभावनानिरुपचितबलं सर्वसङ्गपरित्यागद्विगुणितोत्साहं त्रिभुवनलक्ष्मीसमागमेप्यक्षुब्धं ज्ञानगर्भ वैराग्यं (तत्) त्वय्येव भगवति श्रीवीतरागे, एकायनतामेकी भावमुपगतं एकमेव वीतरागलक्षणमाश्रयमयते इति एकायनस्तस्य भाव एकायनता तां न पुनरन्येष्विति ॥
For Private & Personal Use Only
jainelibrary.org