SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वीतराग सविवर. ॥४४॥ ACCUSEDOES औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८॥ हूँ एवंविधाय परमात्मने नमोऽस्तु, किंविशिष्टाय? औदासीन्येत्यादि यः किलोदासीनः स कथमुपकारीत्युक्तमेव, भगवतस्तु वीतरागस्य सहचरिते औदासीन्ये माध्यस्थ्य सत्यपि, विश्वस्यापि विश्वस्य कृत्स्नस्यापि जगतो धर्मतीर्थप्रवर्त्तनेन उपकारिणे विहितभावोपकाराय । तथा वैराग्यनिघ्नाय ज्ञानगर्भेण वैराग्येन सह समरसीभूताय, अत एव तायिने भवभयार्त्तसत्त्वपालकाय, तुभ्यं भगवते, परमात्मने चिदानन्दस्वरूपाय, नमः प्रणामोऽस्तु किमित्यन्यप्रणमनेनेति भावः ॥ इति श्रीवीतरागस्तोत्रे द्वादशस्य वैराग्यस्तवस्य पदयोजना ॥१२॥ CAROSAR इह हि सदेवदानवमानवस्य कृत्स्नस्यापि जगतः प्रवृत्तिः प्रायःसहेतुकैव, सैव च फलवती, विपरीता त्वनिष्टफला विफला वा । जगद्विलक्षणस्य भगवतः श्रीमदहतस्तु प्रवृत्तिः कियत्यपि निर्हेतुका; तथापि सर्वोत्तमफलवती। एतदेव स्तुतिकृद्धेतुनिरासस्तवेन प्रस्तावयन्नाह ॥ अनाहतसहायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ Peen अत्र च प्रकाशे प्रथमश्लोके सर्वाण्यपि भगवद्विशेषणानि प्रथमैकवचनान्तानि, द्वितीये द्वितीयैकवचनान्तानि, एवं | en Education For Private Personal use only Lohainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy