SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वीतराग सविवर. ॥४४॥ ACCUSEDOES औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८॥ हूँ एवंविधाय परमात्मने नमोऽस्तु, किंविशिष्टाय? औदासीन्येत्यादि यः किलोदासीनः स कथमुपकारीत्युक्तमेव, भगवतस्तु वीतरागस्य सहचरिते औदासीन्ये माध्यस्थ्य सत्यपि, विश्वस्यापि विश्वस्य कृत्स्नस्यापि जगतो धर्मतीर्थप्रवर्त्तनेन उपकारिणे विहितभावोपकाराय । तथा वैराग्यनिघ्नाय ज्ञानगर्भेण वैराग्येन सह समरसीभूताय, अत एव तायिने भवभयार्त्तसत्त्वपालकाय, तुभ्यं भगवते, परमात्मने चिदानन्दस्वरूपाय, नमः प्रणामोऽस्तु किमित्यन्यप्रणमनेनेति भावः ॥ इति श्रीवीतरागस्तोत्रे द्वादशस्य वैराग्यस्तवस्य पदयोजना ॥१२॥ CAROSAR इह हि सदेवदानवमानवस्य कृत्स्नस्यापि जगतः प्रवृत्तिः प्रायःसहेतुकैव, सैव च फलवती, विपरीता त्वनिष्टफला विफला वा । जगद्विलक्षणस्य भगवतः श्रीमदहतस्तु प्रवृत्तिः कियत्यपि निर्हेतुका; तथापि सर्वोत्तमफलवती। एतदेव स्तुतिकृद्धेतुनिरासस्तवेन प्रस्तावयन्नाह ॥ अनाहतसहायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ Peen अत्र च प्रकाशे प्रथमश्लोके सर्वाण्यपि भगवद्विशेषणानि प्रथमैकवचनान्तानि, द्वितीये द्वितीयैकवचनान्तानि, एवं | en Education For Private Personal use only Lohainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy