________________
-SAMACARRORMATUREHSAALASS
यावत्सप्तमे सप्तम्येकवचनान्तानि । तत्र प्रथमं प्रथमैकवचनान्तान्याह-हे जगदीश त्वमेवास्मिन् जगत्येवंविधो नान्य ? किंविध? इत्याह-अनाहूतसहायः किल यो यस्मिन्नर्थे सहायो भवति, स प्रायस्तेन सादरं समाहूत एव स्यात्; त्वं तु| मुक्तिपथप्रस्थितानां भव्याङ्गिनां तदुपायरत्नत्रयोपदर्शनादनाहूत एव सहायस्तदियं निर्हेतुकापि भगवत्प्रवृत्तिः सर्वोत्तमफ|लैव । तथा त्वमस्य जगतः कारणं विनैव वत्सलः, कारणे हि वत्सलत्वं स्वापत्यादौ व्याघ्रादीनामपि भवति; भगवांस्तु परमकारुणिकत्वेनाकारणेनापि वत्सलः । तथा यो हि यस्य व्यवसायाद्यर्थ मूलनीवी प्रयच्छति, स तस्य साधुः, सच प्रायः सविनयमभ्यर्थित एव तस्य तां ददाति, त्वं तु भव्याङ्गिना परमपदैश्वर्यनिबन्धनां ज्ञानादिमूलनीवीमनभ्यर्थित एव|२| |ददानोऽनभ्यर्थितः साधुः। तथा बान्धवो हि प्रायः पितृपितृव्यादिसंबन्धेन भवति, त्वं तु संबन्धमन्तरेणैव भुवनजनस्य |बन्धुकृत्यकरणात् निर्बन्धनबान्धव इति ॥ द्वितीयैकवचनान्तानि विशेषणान्याह
अनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ हे विश्वजनीन! त्वामहं शरणं श्रये। किंविशिष्टं त्वां? अनक्तस्निग्धमनसं किल स्नेहाद्यभ्यञ्जनेन प्रायः स्निग्धत्वं भवति, त्वां अस (त्वस्व) त्त्वरूपस्नेहेन अनक्तमपि स्निग्धमनसं अरूक्षहृदयं, श्रये इति सर्वत्र योज्यम् । तथा मार्जितमेव वस्तु प्रायेण उज्ज्वलं | भवति, त्वां तु मृजां विनैव उज्ज्वलवाक्पथमवदातवाक्सञ्चारं । तथा धौतं प्रक्षालितमेव वस्त्रादि प्रायेणामलं भवति, त्वां तु अधौतामलशीलमप्रक्षालितनिर्मलस्वभावं श्रये । अयमाशयः 'भगवतो मानसं वचनं शीलं च यथाक्रममनक्तममार्जि
Jain Education
For Private & Personel Use Only
M
ainelibrary.org