SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर ॥४५॥ ROGROCEROSAUGARCARECAUSCANDA तमधौतमेव निसर्गतः स्निग्धमुज्ज्वलममलं चेति' एवंविधं त्वामहमान्तरारातित्रस्तः शरणं श्रये, यतः शरण्यं शरणे | साधुमिति ॥ तृतीयैकवचनान्तानि विशेषणान्याचष्टे अचण्डवीरवतिना शमिना समवर्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥ हे जगदेकवीर! त्वया कर्मकण्टका अकुट्यन्त। किंविशिष्टेन? अचण्डवीरव्रतिना वीरव्रतं सुभटवृत्तिः सा विद्यते यस्य स तथा, यश्च वीरव्रती स कथमचण्डो भवति, त्वया त्वकोपनेनापि निर्व्याजवीरव्रतिना । पुनः किंविशिष्टेन ? शमिना प्रशमामृतसक्तविविक्तचेतसा। तथा समवर्त्तिना समतृणमणिलेष्टुकाञ्चनेन । यश्चाचण्डः शमी समदृष्टिश्च स कथं कमपि कुट्टयति, त्वया त्वेवंविधेनापि कर्माणि ज्ञानावरणादीनि तान्येवारुन्तुदत्वेन कण्टका इव कण्टकास्ते काममत्यर्थमकुट्यन्त स्वात्मप्रदेशेभ्यः पृथगक्रियन्त । यतः कुरिलाः कुटिलव्यसनोत्पादकाः, कण्टकाश्च ऋजवोऽपि तावदुर्मोच्याः किंपुनः कुटिलाः, अतः स्थाने स्थाने जगद्वीरेण स्वामिना अकुट्यन्तेति ॥ चतुर्येकवचनान्तानि विशेषणानि ब्रूते अभवाय महेशायागदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः॥ ४ ॥ एवंविधाय तुभ्यं नमोऽस्तु, किंविशिष्टाय? अभवाय महेशाय, अमूनि च षडपि पदानि परस्परविरुद्धानीव । यः किल महेशख्यंबकः स कथमभवस्तस्य भवशब्दाभिधेयत्वात्, भगवांस्तु भवावतारकारणभूतानां कर्मणामात्यन्तिकक्षयेणाभवः, तथा परमार्हन्त्यपरमैश्वर्यसमुपेतत्वेन च महेशस्तस्मै। तथा अगदाय नरकच्छिदे, यः किल नरकच्छिन्नारायणः स कथम CREASCA-CRACARRORSCRECCG ॥४५॥ Join Education For Private & Personal Use Only ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy