SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ XSECRETURESSESSIONS RESEASES गदो गदाधरत्वात्तस्य, भगवांस्तु सहजातिशयमहिम्नैव जन्मनः प्रभृति अगदो नीरुदेहः, तथा धर्मतीर्थप्रवर्त्तनेन भव्याङ्गिनां नरकच्छेदी च, तस्मै । तथा अराजसाय ब्रह्मणे, यः किल ब्रह्मा विधिः स कथमराजसः, किल रजोगुणजुष्ट एव परमेष्ठी सृष्टिं घटयति, स्वामी तु कर्मरजोऽपगमादराजसः, परमे च ब्रह्मणि लयमुपगतत्वाद्ब्रह्मा, तस्मै । एवंविधाय हरिहरब्रह्मभ्यो व्यतिरिक्ताय । अत एव कस्मैचित् छद्मस्थानामगोचराय परमात्मने भगवते नमोऽस्त्विति ॥ पञ्चम्येकवचनान्तानि विशेषणान्याह । अनुक्षितफलोदग्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥ ५॥ हे प्रणयकल्पद्रुम? त्वत्तः सकलदुमधर्मविलक्षणकल्पद्रोरहं फलमवाप्नुयाम् । द्रुमधर्मवैलक्षण्यमेवाह-किंविशिष्टात्त्वत्तः? अनुक्षितफलोदयात् द्रुमा हि निरन्तरोक्षणेन काले फलमात्रं ददन्ति, त्वत्तः पुनरनुक्षितादपि फलैरैहिकामुष्मिकसुखलक्षणैरुदनात् परिपूर्णात् तथा हि-पादपा हि निपातेन गरीयांसो गुरुभाराः स्युः; त्वत्तस्तु स्वस्वरूपावस्थितादपि गरी| यसो गुरुगौरवमिति । तथा कल्पतरवः सङ्कल्पिताः किल फलं ददति, त्वत्तः पुनरसङ्कल्पितात् कल्पद्रोः 'निर्निदाना हिदू स्वामिनः सेवा सविशेष फलमालिनी फलति' तदेवंविधात्त्वत्तोऽहं फलममृतरूपमचिरात् प्राप्नुयां लभेयमिति ॥ षष्ठयेकवचनान्तानि विशेषणान्याचष्टे ॥ असङ्गस्य जनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनस्तेऽस्मि किङ्करः ॥ ६ ॥ in Eduelan For Private & Personel Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy