SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ VI हे स्वामिनी त्वया हिंसका दुर्धरक्रोधोद्वद्धबधबुद्धयोऽपि परमकारुणिकेनोपकारिण इवोपकृताः शान्तेऽध्वनि सञ्चा रिता यथा भगवता श्रीवर्धमानस्वामिना शूलपाणिचण्डकौशिकप्रभृतयः, तथा आश्रिता निर्णिक्तभक्तिव्यक्तिजुषः सन्ततं दाच चरणसरोजसेवाहेवाकिनोऽप्यपरिचितेनेव त्वयोपेक्षिता औदासीन्येन दीक्षिताः यथा तेनैव स्वामिना महात्मजनिस टप्रलयानलप्रतिमतेजःपुञ्जजाज्वल्यमानतनू सर्वानुभूतिसुनक्षत्रमुनी । तदिदमेवंविधं चित्रमाश्चर्यचर्याकरमलौकिकं तव |चरित्रं, के वा कृतधियोऽपि, पर्यनुयुञ्जताम् किमर्थमिदमेवं स्वामी करोतीति प्रष्टुमप्युत्सहन्तामित्यहो तवाद्भुता वीतराग-1 तासहचरिता समतेति ॥ न च निन्दास्तुतितिरस्कारपुरस्कारेष्वेव तवौदासीन्यं किन्तु स्वात्मन्यपीत्युपदर्शयन्नाह| तथा समाधौ परमे त्वयात्मा विनिवेशितः। सुखी दुःख्यस्मि नास्मीति यथान प्रतिपन्नवान् ॥७॥ हे भगवन! त्वया, तथा तेन प्रकारेण, परमे त्वदितरयोगिनामगम्ये, समाधौ परमाराध्यात्मलये, आत्मा, विनवेशितो। || निष्पकम्पतामारोपितो यथाहं सुखी यदि वा दुःखी अस्मि नास्मीत्येतदपि न प्रतिपन्नवान् चिदानन्दात्मनि निलीनो न18| वेत्ति भवान् ॥ यस्माच्च सुखदुःखसत्त्वासत्त्वानि ध्यानावसरे विलीयन्ते तमेव स्वामिनो योगमहिमानमुदीरयन्नाह ध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः॥en हे योगोपनिषन्नयन स्वामिन् ! तव योगमाहात्म्यं परैः कथं श्रद्धीयतां! किमित्याह-इति, इतीति किं त्रयमेकात्मतां गतं. किंतत्रयं ? ध्याता ध्येयं ध्यानं च, तत्र ध्याताक्षपकश्रेण्यारूढः, ध्येयं षड्जीवनिकायहितं परमात्मतत्त्वं, ध्यानं च ध्येयवि Jain Education 69 For Private Personel Use Only Painelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy