SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. ॥४८॥ SOCCANCIENCETROCIRCREEN विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिन्निदमलौकिकम् ॥ ४॥ हे स्वामिंस्तवेदमप्यलौकिकं, किमित्याह ? यद्विषयेषु शब्दादिषूपनतेष्वपि निसर्गत एव विरागः, यदि पुनः पूर्वमपरिचितास्ते भविष्यन्तीत्याह-चिरं सहचरेष्वपि चिरमनादिभववासात्प्रभृति सहचरेषु प्रतिभवोपलालितेषु विरक्तिर्भवहेतुत्वात्तेषां| योगेऽदृष्टे पूर्वमपरिचिते सद्यः सङ्घटितेऽपि सात्म्यमेकीभावस्तस्यैव मोक्षाङ्गत्वादित्येतदपि तवालौकिकं लोकोत्तरमिति ॥ तथा भगवतः केवलोत्पत्तेरनन्तरं परिपत्रिमयोगफलस्य समुचितैव समशत्रुमित्रता, किंतु छद्मस्थस्य परिपठ्यमानयोगफलस्यापि लोकोत्तरैव समतेत्युपदर्शयन्नाह तथा परे न रज्यन्त उपकारपरे परे । यथापकारिणि भवानहो सर्वमलौकिकम् ॥ ५॥ हे लोकोत्तरचरित्रोद्भासित भगवन्? परे योगरहस्यविश्रान्तिशून्याः कुतीर्थिनः परेऽन्यस्मिन्नुपकारपरे प्रवर्तितोपकारेप्यधिकाधिकोपकृतिस्पृहया, तथा तेन प्रकारेण, नरज्यन्ते न प्रीतिमुद्वहन्ति, यथापकारिणि सङ्घटितदुर्गोपसर्गेऽपि अहो साधु कर्मक्षयप्रवृत्तस्य ममायमनाहूतसहायः संपन्न इति परेऽन्यस्मिन् प्रीतिमुद्वहति, अहो इति विस्मये। तदेवं यद्यत्तव चरित्रमनुस्मयते तत्तत्सर्वमलौकिकं लोकोत्तरमेवेति ॥ पुनर्भगवतो योगसमृद्धिजं साम्यमुत्कर्षयन्नाहहिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ॥ ६ ॥ ॥४८॥ Jain Education ina For Private Personal Use Only www.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy