SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education In हे भगवन् ? त्वया इन्द्रियजयः कृतः, कथमित्याह ? संयतानि नचाक्षाणि अक्षाणि स्पर्शनादीन्द्रियाणि स्वस्वविषयेषु प्रवर्त्तमानानि न नियन्त्रितानि विषयेभ्यश्च स्वयमेव व्यावृत्तानि नैव उच्छृङ्खलितानि उपेत्यापि किमित्याह ? यदि किल विषयोन्मुखान्येवाक्षाणि बलात्संयम्यन्ते, तदा अदृष्टस्वरूप स्वरूपाणि सकौतुकानि सस्पृहाणि च न प्रतिपद्यन्त एव नियन्त्रणां; यदा तु कियत्कालमुच्छृङ्खलं विषयेषु व्यापार्यन्ते, तदा विज्ञातविषयस्वरूपाणि निवृत्तकौतुकानि कृतकृत्यानि स्वयमेव निवर्त्तन्ते, नच भूयो विकृतिमुपयान्ति । श्रूयते च "येन संवत्सरो दृष्टः सकृत् कामश्च सेवितः । तेन विश्वमिदं दृष्टं पुनरावर्त्तते जगदिति" । एवं च त्वया इन्द्रियजयोपायं सम्यक्प्रतिपदा यथावत्प्रतिपदानेन हृषीकवशीकारः कृत इति ॥ एवं मनो विजयानन्तरं किलाष्टाङ्गयोगप्रवृत्तिरित्यपि व्यवहृतिमात्रमेवेति दर्शयन्नाह ॥ योगस्याष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् ॥ ३ ॥ हे योगसागरपारीण भगवन् ? येयं योगशास्त्रादिषु योगस्याष्टाङ्गता यम, नियमासन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधि, लक्षणा श्रूयते, सापि निपुणं निरूप्यमाणा प्रपञ्च इव प्रक्रिया गौरवमिव प्रतिभाति । किमित्याह ? कथमन्यथा अन्यथा प्रपञ्चाभावे एष योगस्तव कथं सात्म्यं शैलेशीमुपेयिवान् । कुतः प्रभृतीत्याह ? आबालभावतः आशैशवात् । अयमाशयः 'भगवतो हि गर्भावतारात्प्रभृति ज्ञानत्रयधरस्य सहचर एव योगः, या चेयमष्टाङ्गता सा सामान्ययोगिजनापेक्षया, जगन्नाथस्तु योगिनाथः ततस्तस्य सात्म्यमेव योगस्येति न किञ्चिदसङ्गतम् ' । नच योगप्राप्तिक्रम एव तवालौकिकं किंत्विदमपीत्याह For Private & Personal Use Only ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy