SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ दुःखहेतुषु वैराग्यं न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य यथा ते सुखहेतुषु ॥२॥ दुःख० हे वीतराग! दुःखहेतुषु वियोगादिषु, वैराग्यं तव न तथा निस्तुषं निर्व्याज, मोक्ष० सम्यग्ज्ञानत्रयप्रवणस्य तव सुखहेतुषु यथा वैराग्यं विशदं वर्त्तते कोऽर्थः यदुःखहेतुषु वैराग्यं तत्कापरिचक्षणिकं यच्च सुखहेतुषु ख्यादिषु, तन्निश्चलत्वेन मोक्षसाधकम् ॥२॥ विवेकशाणैर्वैराग्यशस्त्रं शातं त्वया तथा । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥ विवे० हे वीतराग ! त्वया विवेकशाणैर्वैराग्यरूपं शस्त्रं तथा शातं तीक्ष्णीकृतं, “शाणशब्दः पुल्लिङ्गेप्यस्ति शराण्यर्थे" | यथा मोक्षे महोदये पक्षेऽव्यापारेपि तदकु० अप्रतिहतसामर्थ्यमभूत् ॥३॥ ___यदा मरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रति म विरक्तत्वं तदापि ते ॥४॥ यदा हे नाथ ! त्वया यदा सुरराज्यादिलक्ष्मीर्भुज्यते, नामेति कोमलामन्त्रणे, यत्र तत्र तव रतिः कोऽर्थः यत्र यथैव |स्थितस्तत्र तथैव रतिःसमाधिस्तदापि ते तव विरक्तत्वं साध्वियं श्रीरुपनतोपस्थितं कर्म ममेदं भोगं विना नक्षीयत इत्यादिप्रकारेण ॥४॥ नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥५॥ नित्यं० हे वीतराग ! त्वं नित्यं दीक्षाग्रहणात्प्रागपि कामेभ्यो विषयेभ्यो, विरक्तो यदा योग ज्ञानदर्शनचारित्ररूपं, प्रप| उसे गृह्णासि, तदा ते तव, प्राज्यं प्रभूतं, वैराग्यमस्त्येभिर्विषयैर्भुक्तभोग्यत्वादलं सृतमितिप्रकारेण ॥५॥ Jain Educati o n For Private & Personel Use Only Www.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy