________________
वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात्, तत एवाभावोऽपि न युक्तः। यच्चोक्तं नानावस्तुधर्मापेक्षयेत्यादि । तदसत्यं । न खलु नानावस्तुधर्मापेक्षयकस्यानैकान्तात्मकत्वमङ्गीक्रियते येन सिद्धसाधनं स्याद् । अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया। न च तत्र विरोधादिदोषानुषङ्गस्तस्य प्रागेव निराकृतत्वाद्, यच्चोक्तं क्रमेणेत्यादि। क्रमेणाक्रमेण वानेकान्तस्याभ्युपगतत्वात नचे युक्तं क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षयाऽक्रमेणेति । यच्चोक्तमनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुयान्नानास्वभावैर्वेत्यादि । तत्र नैकेन स्वभावेन नानास्वभावैर्वा भिन्नवस्तु भिन्नान् स्वभावान् स्वतो व्याप्नुयादिति जैनो मन्यते; किं तर्हि स्वकारणकलापादनेकस्वभावात्मकं मतमिति । यच्चोक्तं जलादेरप्यनलादिरूपता स्यादित्यादि । तदप्यनुपपन्नं । जलादेहि स्वरूपापेक्षया जलादिरूपता न पररूपापेक्षया, ततो न जलादौ जलार्थिनोऽनलादिरूपस्य दर्शनं यतस्तत्र प्रवृत्तिन स्यात् प्रेक्षापूर्वकारिण इति । यच्चोक्तं प्रमाणमप्यप्रमाणं स्यादित्यादि । तदपीष्टमेव । प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपतायाः पररूपापेक्षया चाप्रमाणरूपतायाः स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोपः स्यादुक्तन्यायेन प्रमाणाप्रमाणव्यवहारस्य लोके प्रमाणेऽपि सुप्रसिद्धत्वादिति । यच्चोक्तं सिद्धोप्यसिद्धः स्यादित्यादि । तदपीष्टमेव । पररूपापेक्षया सिद्धस्याप्यसिद्धरूपताया अभ्युपगतत्वादिति । यच्चोक्तं सर्वज्ञोप्यसर्वज्ञः स्यादिति । तदपीष्टमेव । सर्वज्ञरूपी सर्वज्ञस्याप्यसर्वज्ञताया अभ्युपगतत्वादिति । प्रकारान्तरेण तस्यासर्वज्ञता न संभवत्येव । प्रमाणबाधनादिति। यच्चोक्तं येन प्रमाणेन सर्वज्ञस्यानेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपता सिद्धास्यादित्यादि।
१ तद्युक्तं । २ रूपेण ।।
Jain EducationaT
al
For Private & Personal Use Only
I