SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥२९॥ Jain Education यथा नकुलेन बलवता सर्पस्य विघातः क्रियमाणो दृश्यते; तथा भेदेनाभेदस्याभेदेन च भेदस्य विघातो दृश्यते, तथाप्रती| तेरभावात् । भवतु वा कश्चिद्विरोधः तथाप्यसौ सर्वथा कथञ्चिद्वा स्यात् गत्यन्तराभावात् ! न तावत् प्रथमपक्षो घटते, शीतोष्णस्पर्शयोरपि प्रमेयत्वादिना विरोधासिद्धेः । एकाधारत्वेन चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित् प्रदेशे शीत| स्पर्शः क्वचिच्चोष्णस्पर्शः प्रतीयत एव अथानयोः प्रदेशयोर्भेद एवेष्यते भवतु नामानयोर्भेदो धूपदहनाद्यवयविनस्तु न भेदो नचोष्णशीतोष्णस्पर्शाधारता नास्तीति वक्तुं युक्तमध्यक्षविरोधात् । तस्मान्न सर्वथा भावानां विरोधो घटते । कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः । यच्चोक्तं वैयधिकरण्यं स्यादिति तदप्यसत्यं । निर्वाधप्रत्यक्षं भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु तथाप्रतीयमानयोर्वैयधिकरण्यं रूपरसयोरपि तत्प्रसंगात् । उभयदोषोऽपि न घटते । प्रतीयमाने कथमुभयदोषो नाम नानादोपोपि न स्यात् । यथैव हि घटादौ भेदोऽनुभूते तथाऽभेदोपीति कथं नानात्व| दोषः, सरव्यतिकरावपि न स्तः । भेदाभेदयोरेकस्मिन् पदार्थे स्वरूपेण प्रतीयमानत्वात् । यच्चोत्तमनवस्था स्यात् । तदप्यनुपपन्नं वस्तुन एव भेदाभेदात्मकत्वाभ्युपगमात् न पुनर्भेदाभेदयोः । पदार्थस्य तु भेदो धर्म एवाभेदस्तु धर्म्येवेति कथमनवस्था, न चैकान्ताभ्युपगमो दोपाय सम्यग्नयविषयस्य भेदस्याभेदस्य च स्याद्वादिभिरभ्युपगतत्वात् । संशयोऽपि न युक्तो भेदाभेदयोः स्वरूपेण प्रतीयमानत्वादेकस्मिन् भेदाभेदाप्रतीतौ हि संशयो युक्तः क्वचित् प्रदेशे स्थाणुपुरुषत्वामतीतौ तत्संशयवत् चलिता च प्रतीतिः संशयो नचेयं चलिता । तथा दृष्टहानिरदृष्टकल्पना च न स्यात् । भेदाभेदात्मकस्य २ अत एव । ३ धर्मयोः । १ निर्बाधकं । onal For Private & Personal Use Only सविवर. ॥२९॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy