SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | सत्त्वमेव स्वरूपं स्वरूपेणेव प्रतिरूपेणापि सत्त्वप्रसङ्गात् । नच स्वरूपेण सत्त्वमेव पररूपेणासत्त्वं, पररूपेण वासत्त्वमेव स्वरूपेण सत्त्वं, तदपेक्ष्यमाणनिमित्तभेदात् । स्वद्रव्यादिकं हि निमित्तमपेक्ष्य सत्त्वप्रत्ययं जनयति पदार्थः । परद्रव्यादिकं त्वपेक्ष्या सत्त्वप्रत्ययमित्येक द्वित्वादिसङ्ख्यावदेकस्मिन्पदार्थे सत्त्वासत्त्वयोर्भेदो न चैकस्मिन् वस्तुनि वस्त्वन्तरमपेक्ष्य द्वित्र्या| दिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्षैकत्वसङ्ख्यातो नान्या प्रतीयते । नापि सारूप्यात्तद्वतो भिन्नैवास्यासङ्घयेयत्वप्रसङ्गात् । सङ्ख्यासमवायात्तत्त्वमित्यप्ययुक्तं, कथश्चित्तादात्म्यव्यतिरेकेण समवायस्यासंभवात् । तस्मात् सिद्धोऽपेक्षणीयभेदात्सं| ख्यावत्सत्त्वासत्त्वयोर्भेदस्तथाभूतयोश्चानयोरेकस्मिन् पदार्थे प्रतीयमानत्वात् कथं विरोधो ! यतो दृष्टान्तो न स्यात् । भ्रान्तेयं प्रतीतिरित्यपि मिथ्या, बाधकस्याविद्यमानत्वात्, विरोधो वाधक इत्यप्यसत्यमितरेतराश्रयानुषङ्गात् । सति हि विरोधे तेनास्या वाध्यमानत्वाद्रान्तत्वम्, ततश्च तद्विरोधसिद्धिरिति । विरोधश्चाविकलकारणस्यैकस्य भावतो द्वितीयसंनिधानेऽसत्त्वा न्निश्चीयते, यथोष्णसंनिधाने शीतस्य । नच पर्यायरूपेण भेदस्य सन्निधाने द्रव्यरूपेण भेदस्याभाव उपलभ्यते । किंचान| योर्विरोधः किं सहानवस्थानस्वभावो घटते ! मृद्रव्यलक्षणे पदार्थे मृद्रव्यरूपतयाऽभेदस्य घटादिपर्यायरूपतया भेदस्याध्यक्ष|द्धौ प्रतीयमानत्वात् । नच तथाप्रतीयमानयोरप्येकत्र तयोर्विरोधो युक्तो, रूपरसयोरपि तत्प्रसंगात् । परस्परपरिहारस्थिति| स्वभावस्तु विरोधी घटादेर्भेदाभेदयोः सत्त्वासत्त्वयोर्वा रूपरसयोरिव सतोरेव नासतोर्नापि सदसतोः संभवति । वध्यघातकस्वभावोऽपि विरोधोऽहिनकुलयोरिव बलवदबलवतोर्नच भेदाभेदयोः सत्त्वासत्त्वयोर्वा बलवदवलवद्भावो दृश्यते । नहि २ संख्यामेव नारोहति । ३ भवतो । Jain Education nal १ पर । For Private & Personal Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy