________________
वीतराग.
॥२८॥
Jain Education
को हि नाम विवक्षितार्थे विवक्षितार्थक्रियाकारिरूपमिवाविवक्षितार्थक्रियाकारिरूपमुपलभमानो विवक्षितार्थक्रियार्थी तत्र | प्रवर्त्तेत प्रेक्षापूर्वकारी । नचैवं ! विवक्षितार्थे विवक्षितार्थक्रियाकारिण्येव विवक्षितार्थक्रियार्थिनः प्रवृत्तिदर्शनात् ॥ किंच ॥ प्रमाणमप्यप्रमाणमप्रमाणं वा प्रमाणं भवेत्तथाच सर्वजनप्रसिद्ध प्रमाणाप्रमाणव्यवहारविलोपो भवेत् । किंच । सर्वज्ञोप्य| सर्वज्ञः स्यात् । किंच ॥ सिद्धस्याप्यसिद्धत्वं स्यात् । किंच । येन प्रमाणेन सर्वस्यानेकान्तरूपता प्रसाध्यते तस्य कुतो नैकान्तरूपतासिद्धिर्यदि स्वतस्तर्हि सर्वस्यापि तथा भविष्यति किं प्रमाणकल्पनया । अथ परतस्तर्ह्यनवस्था । किंचानेकान्तबाधकं प्रमाणमस्ति । तथाहि ॥ भेदाभेदादिकौ धर्मों नैकाधिकरणौ परस्परविरुद्धधर्मत्वाच्छीतोष्णस्पर्शवदिति तस्मादेकान्तरूपमेव वस्त्वितिविरोधादीनाशङ्कय तान्निराकुर्व्वन्नाह ॥
द्वयं विरुद्धं नैकत्रासत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥ ७ ॥
एकस्मिन् पृथ्वीपृथ्वीधरादौ वस्तुनि नित्यानित्यात्मकरूपं द्वयं न विरुद्धम् । न च विरोधोपलक्षितवैयधिकरण्यादिदोषकलुषं । कथमिति चेदित्याह असत्प्रमाणप्रसिद्धेः, किमपि न तत्प्रमाणं प्रामाणिकंमन्यैः प्रमाणीक्रियते येन विरोधादीनां सिद्धिः साध्यते । यत्तावदुक्तं विरोधो वाधकः स्यादिति तदयुक्तम् । पर्यायरूपतया भेदोऽभ्युपगम्यते, द्रव्यरुपतया चाभेदस्तयोश्चैकत्र रूपरसयोरिव सत्त्वासत्त्वयोरिव वाऽविरोधसिद्धेः, प्रतीयमानयोश्च कथम् विरोधो नाम, स ह्यनुपलम्भसाध्यो यथा वन्ध्यागर्भे स्तनन्धयस्य । ननु सत्त्वासत्त्वयोरिवेति दृष्टान्तोऽप्यसिद्ध इति चेत् । तन्न, स्वद्रव्यक्षेत्रकालभावापेक्षया सत्त्वरूपस्य | परद्रव्य कालभावापेक्षया चासत्त्वस्यैकस्मिन् क्षणे सर्वस्य पदार्थस्य प्रत्यक्षादिबुद्धौ प्रतिभासनात् । न खलु पदार्थस्य सर्वथा
For Private & Personal Use Only
सविवर.
ારદ્વા
jainelibrary.org