________________
SROCHOREOGREATERA
स्यादितिव्यतिकरः “परस्परविषयगमनं व्यतिकर इतिवचनात् ॥३॥ तथा येन रूपेण भेदस्तेनाभेदो येन चाभेदस्तेन भेदोऽपि स्यादितिसङ्करः। “सर्वेषां युगपत्प्राप्तिःसङ्कर इतिवचनात्"॥४॥तथा येन रूपेण भेदस्तेनाभेदोऽपि येन चाभेदस्तेन भेदोऽभ्युपगन्तव्योऽन्यथा सर्वमनेकान्तात्मकमित्यस्य विरोधानुषङ्गात् । तथाच भेदाभेदावपि प्रत्येकं भेदाभेदात्मकौ स्यातां । तत्रापि प्रत्येकं भेदाभेदात्मकत्वपरिकल्पनायामनवस्था स्यात् ॥ ५॥ तथा केन रूपेण भेदः केन चाभेद इति संशयः॥६॥तथा भेदरूपमभेदरूपं वा दृष्टं वस्तु नाभ्युपगम्यते अदृष्टं च भेदाभेदात्मकं परिकल्प्यते इति दृष्टहानिरदृष्टपरिकल्पना च स्यात् ॥७॥ तथा च परिकल्पितस्य वस्तुनोऽभाव एव युक्तः॥८॥ किंच नानावस्तुधर्मापेक्षया सर्वमनेकान्तात्मकमुत तन्निरपेक्षतया प्रत्येकं सर्व वस्त्विति ! प्रथमे पक्षे सिद्धसाध्यता । द्वितीयेऽपि पक्षे विरोधादिदोषः॥९॥ किंच, किं क्रमेण सर्वमनेकान्तात्मकमभ्युपगम्यते योगपद्येन वा! प्रथमपक्षे सिद्धसाध्यता द्वितीयपक्षे तु स एव दोष इति ॥१०॥ किंचानेकधर्मान् वस्तु किमेकेन स्वभावेन नानास्वभावैा(वा व्या)नुयादिति। यद्येकेन तदा तेषामेकत्वं वस्तुनो वा नानात्वं स्यादेकस्यैकत्र प्रवेशादिति । अथ नानास्वभावस्तर्हि तानपि नानास्वभावान् किमेकेन स्वभावेन व्यामुयात् नानास्वभावैर्वा !। यद्येकेन तदा सर्वधर्माणामेकत्वं वस्तुनो वा नानात्वं स्याद्, अथ नानास्वभावैस्तर्हि तानपि किमेकेन स्वभावेन नानास्वभावैार्वा व्या) मुया 3 दित्यादि सर्व वक्तव्यमनवस्था च । किंच यदि सर्व वस्त्वनेकान्तात्मकमभ्युपगम्यते तर्हि जलादेरप्यनलादिरूपता अनलादेवा |जलादिरूपता भवेत्तथा जलाद्यर्थिनो जलादावनलाद्यर्थिनश्चानलादौ प्रवृत्तिर्न स्यादन्योन्यविरुद्धस्यापि धर्मस्य सद्भावात् ।
१ खभावेन ।
CTE
en Education
For Private
Personal use only
A
jainelibrary.org