SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥२७॥ Jain Education स्यात् । नाप्यविद्यमानश्चिरतरविनष्टवत्, नाप्युभयरूप उभयपक्षनिक्षिप्तदोषानुषङ्गात् । एवमेकान्तक्षणिकत्वपक्षेऽपि नार्थक्रियाकारित्वं घटाकोटिसंटङ्कमाटीकते । तस्मादेकान्तमताभिनिवेशः परतीर्थिकानां कदाशापाश एव ॥ एतदेव निगमयन्नाह ॥ यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥ ५ ॥ यदा पुनर्वस्तुनो विवादास्पदीभूतस्य स्तम्भकुम्भरम्भाम्भोरुहादेर्नित्यानित्यरूपता भवेत्, तदा नैव दोषः कालुष्यलक्ष्यता काचन । ननु नित्यानित्यत्वं को वै न मन्यते । परमाणुरूपतया नित्यस्य, कार्यरूपतया चाऽनित्यस्य स्तम्भादेर्वस्तुनो वैशेषिपिकैः परस्परनिरपेक्षतया मीमांसकैश्चाभ्युपगमादस्त्वेवमिति चेदित्यारेकामेकामाशङ्कय भगवन्तं साक्षात्कुर्वन्नाह । यथेत्यादि । हे भगवन् यथैव त्वमात्थं वस्तुनो नित्यानित्यत्वं तथैव न दोषः, अन्येषां नानादोपकल्मषमपी कलुषितत्वात् ! | एतदवष्टम्भाय दृष्टान्तमाह ॥ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥ ६ ॥ निगदसिद्धोऽयम्॥ ननु नित्यानित्यभेदाभेदसत्त्वासत्त्वसामान्य विशेषात्मकाभिलाप्यानभिलाप्यात्मके तत्त्वे मन्यमाने दुर्धरविरोधगन्धविधुरता धुरन्धरतां धारयति । तथाहि यदि भेदस्तर्ह्यभेदः कथमभेदश्चेत्तर्हि भेदः कथं स्यादिति (विरोधः) ॥ १ ॥ तथा यदि भेदस्याधिकरणं तर्ह्यभेदस्य न भवेदथाभेदस्य तर्हि भेदस्य न स्याच्छीतोष्णस्पर्शवद्, नहि यदेव धूपदहनादिकं शीतं तदेव चोष्णमुपलभ्यते तथाप्रतीतेरभावादिति वैयधिकरण्यम् ॥ २ ॥ तथा येन रूपेण भेदस्तेनाभेदोऽपि येनाभेदस्तेन भेदोपि १ लक्षता । २ ब्रुध्वे । For Private & Personal Use Only * सविवर ॥२७॥ Jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy