SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्यत्वसिद्धेः। स्यान्मतम् !न चेतना नाम विषयभूतार्थान्तरमात्मनोऽपि या बुद्ध्याध्यवसीयते; तस्यास्तत्स्वरूपत्वात् , स्वतःप्रकाशनाच्चेति । तदप्यनुपपन्नम् । तदर्थक्रियाकारित्वायोगाद् , नह्यर्थक्रियावत् स्वरूपमेव सदवस्थाप्यर्थक्रिया प्रसिद्धाऽस्ति । तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च तस्मिन् परत्र च प्रतीतेः । सोऽयं पूर्वापरस्वभावपरिहारावाप्तिलक्षणार्थक्रियां कूटस्थेऽपि ब्रुवाणः कथमनुन्मत्तः स्यात्तत एकान्तनित्यत्वं प्रेक्षादक्षैरर्थक्रियासमर्थत्वं यथा २ विचार्यते तथा २ वि-1 शीर्यते। अथ बौद्धः प्राह ॥ नित्यैकान्ते पूर्वोक्तप्रकारेणार्थक्रियाकारित्वस्यासंभवादस्मत्पक्ष एव क्षणिकैकान्तलक्षणः श्रेयान् । तदपि न; तत्रापि तस्यासिद्धेः । तथाहि-नास्ति क्षणिकैकान्तोऽनर्थक्रियाकारित्वाद्यद्यदनर्थक्रियाकारितत्तन्नास्तीत्युपलब्ध यथा ब्रह्माद्वैतम्। अनर्थक्रियाकारी च क्षणिकैकान्तः तस्मान्नास्तीतिनिश्चीयते। न चानर्थकारित्वादित्ययं हेतुरसिद्धस्तत्क्षणिकै-12 कान्तेऽविद्यमानत्वात्तथाहि-सर्वथा क्षणिकः पदार्थः स्वामर्थक्रियां क्रमेण करोति यौगपद्येनोभयरूपेण वा!न तावद्देशकमेण कालक्रमेण वा स्वं कार्य कर्तुमलं, तस्याक्रमत्वाद्, न चाक्रमस्यापि क्रमेण कार्यकारित्वं घटते, सर्वथा नित्यवद्, नापि योगपद्येनैकस्मिन्नेव क्षणे सकलकार्यकदम्बस्य निष्पादितत्वात् द्वितीयादिक्षणे क्षणिकत्वे तस्यासत्त्वात्सकलशून्यता स्यान्नचैवम् ।। किंच । यदि यौगपद्येन कार्य करोति तर्हि क्रमेण कार्योपलम्भोन स्यादू, अस्ति च,कुम्भकार एकस्मिन् क्षणे घटं कुर्वन्नुपलभ्यते द्वितीयादौ च घटादिकमिति। नाप्युभयरूपेणोभयपक्षनिक्षिप्तदोषानुषङ्गात् । करोतु वा यथाकथञ्चिदू , विद्यमानोऽविद्यमान उभयरूपो वा करोति ! न तावद्विद्यमानः, क्षणभङ्गभङ्गप्रसङ्गात् । किंच । यदि सन्नेव क्षणिकः पदार्थः कार्य 5 करोति तर्हि त्रैलोक्यमेव क्षणवर्ति स्यात्, कारणकाल एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य सत्त्वात्तेषां च सन्तानाभावः मेण कालक्रमण सकलकार्यकदम्बस्य निष्पादितत्वात् द्वितावास्या,अस्ति च,कुम्भकार एकस्मिन् क्षणे घट या Jain Educatio n Koli al For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy