SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. ॥३०॥ तत्रोच्यते । प्रमेयं हि द्विविधमचेतनं चेतनं च, तत्राचेतनं स्वपराध्यवसायविकलं न खस्यैकान्तरूपतामनेकान्तरूपतां च परिच्छेत्तुमलम् । चेतनेन तत्रानकान्तरूपता परिच्छिद्यते । चेतनं तु स्वस्याप्यनेकान्तरूपं परिच्छेदयितुं समर्थ न तत्रापरं प्रमाणमपेक्षते येन चानवस्था स्यात्तथाहि चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत्स्वरूपापेक्षयात्मनो भावं पररूपापेक्षया चाभावं परिच्छिनत्त्यन्यथा यथावदसंकीर्णस्वरूपस्य ग्राहकं न स्यान्न चैवं व्यावृत्ताव्यावृत्तरूपस्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित्तत्र स्वदुरागमाहितवासनावशादेकान्तसमारोपः सोऽपि तस्य न्यायान्तरानिराकर्त्तव्यः। तथाहि-धूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वं तथा साध्यान्तरं प्रत्यप्युतान्यथेति । यदि गमकत्वमेवाङ्गीक्रियते । तदा साध्यान्तरस्यापि तत एव सिद्धेलिङ्गान्तरकल्पनावैफल्यं स्यात् । ततः सर्वस्यापि साध्यस्य सिद्धिरिति॥ उतान्यथा तर्हि यथैकं लिङ्गं गमकत्वागमकत्वरूपेणानेकान्तरूपं तथा सर्व वस्तु स्वपरकार्यकारणसामर्थ्यासामर्थेनानेकान्तरूपमस्तु विशेषाभावादिति । यदप्युक्तं बाधकं प्रमाणमस्ति भेदाभेदी नैकाधिकरणावित्यादीति । तदप्यनुपपन्नं पक्षस्य प्रत्यक्षेण वाध्यमानत्वाद्धेतोश्च कालात्ययापदिष्टत्वात् अनुष्णोऽग्निद्रव्यत्वाजलवदित्यादिवदिति । भेदाभेदयोरेकाधिकरणत्वेन प्रत्यक्षबुद्धौ प्रतिभासनान्नैवोभयोर्विरुद्धधर्मयोरपि सतोः कापि क्षतिरीक्ष्यत इति पर्यालोच्य स्तुतिकृदपि विरोधाभावमाह-विरुद्धेत्यादि । हिर्यस्माद्विरुद्धवर्णसंबन्धो मेचकवस्तुषु मिश्रवर्णपदार्थेषु दृष्टः परं न तत्रैतषणघोषणान्वेषणापि कर्तुं पार्यते । यदि तत्रापि वाडिण्डिमाडम्बरप्रचण्डपाण्डित्यपाटवशीलैः प्रत्यक्षादिप्रमाणोपपन्ने कापि युक्तिः प्रपश्यते । १ रूपतां । ॥३०॥ Jain Education ! For Private & Personel Use Only IGNMainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy