SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ R- वीतराग. त्वाद्वाग्मित्वस्य । तथा त्वामेव विश्वोपास्यरपि सरभसमुपास्यं वयमुपास्महे अत एव सकलसत्कर्ममौलिभूतत्वात्त्वदुपा- सविवर. सनस्यैतद्व्यतिरिक्तं किमन्यत् कुर्महे । कृतेऽस्मिन् कृतान्येव निखिलान्यपि सत्कर्माणि । अत्र च शरणार्थिनां तावत्कोपासकानां ॥१८॥ वहुत्वादुक्तौ बहुवचनं भगवतस्त्वद्वितीयत्वेन त्वामित्येकवचनं स्तुतिकतु नौचितीमंचति । एवमन्यत्रापि द्रष्टव्यं ॥ एवं स्वामिनः शरणगमनस्तवनोपासनः स्वयं कृतकृत्योऽपि स्तुतिकृत् कुतीर्थिकदर्थ्यमानं जगदवलोक्य सनिर्वेदमिदमाह ॥ स्वयं मलीमसाचारैः प्रतारणपरैः परैः॥ वंच्यते जगदप्येतत् कस्य पूत्कुर्महे पुरः ॥६॥ हे कृपाकुपार परैरसर्वज्ञोपज्ञकदागमविप्लावितमतिभिरात्मा तावद्वंचित एव केवलमेतज्जगदपि तथैतदुपचारादयं जगज्जनोऽपि कापथप्रवर्त्तनेन वंच्यते । यदि पुनस्ते सदाचारा भविष्यतीत्याह । स्वयं मलीमसाचारैः स्वयमात्मना पापप्रवृत्त्या मलिनचेष्टितैः। तथाविधा अपि कदाचिदाश्रितान् सदाचारे नियोजयेयुरित्याह। प्रतारणपरैः संचितविचित्रवंचनप्रपंचैरेवंजाविधैस्तैर्जगदिदं वंच्यते । इदं च जगद्वंचनासमंजसं परमकारुणिकं सर्ववेदिनं च भवंतमंतरेण वयमन्यस्य कस्य पुरः पूत्कुतामहे । अद्य श्वो वा भव्यांगिवर्गोऽयं त्वयैव कुमतपंकादुद्धर्त्तव्यस्तकिमुपेक्षस इति भावः ॥ न चायं जगज्जनः परैः परिभूयेत यद्ययं चेतनो भवेदिति आह ॥ नित्यमुक्तान् जगजन्मस्थेमक्षयकृतोद्यमान् ॥ वंध्यास्तनंधयप्रायान् को देवांश्चेतनः श्रयेत् ॥ ७॥ || हे स्वामिन्नेवंविधान् देवान् चेतनो विशिष्टचित्तचैतन्यवान् पुमान् निःश्रेयसकामः कः श्रयेत् । किं विशिष्टान् ॥१८॥ नित्यमुक्तान् विशिष्टयमनियमप्राणायामतपःकष्टादिभिर्दुष्कर्मजालमनुन्मूल्यापि नित्यमुक्तान् स्वभावमुक्तस्वरूपान् ACCOUCCESCARRACT Jain Education a l For Private & Personel Use Only Urjainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy