SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ SISEX इत्येकं तावहर्घटम् । एवंविधा अपि यदि निरुपाधिमधुरा एव भवेयुस्तदा किं यदि घटतापीत्याह । जगजन्मस्थेमक्षयकृतोद्यमान् जगतश्चराचरस्य जन्मस्थेमक्षयेषु सृष्टिपालनप्रलयेषु कृतोद्यमान् किलैकः कश्चिज्जगत्सृजत्यन्यः पालयत्यपरः संहरतीत्याद्याविष्कृतवैकृतान् । अतो यदि ते नित्यमुक्तास्तत्कथं जन्मादिविप्लवपराः, अथ जगत्कर्तृतादिकण्डूलमनसस्तहि नित्यमुक्ताः कथं। मुक्ता टकस्वभावास्तेषां च यथाक्रमं रजःसत्वतमोगुणोल्बणोदयानां जगतः सर्गस्थितिसंहृतिप्रयतत्वेन सुव्यक्तैव भिन्नस्वभावतेति यत्किञ्चिदेतत् । यथा च जगत्कर्तृत्वाद्यप्रामाणिकं तथा जगत्कर्तृत्वनिरासस्तवे पुरस्ता-18| टू द्विस्तरतो व्याख्यास्यते । अत एव वन्ध्यास्तनन्धयप्रायान् सर्वथैवायौक्तिकत्वेन वन्ध्यासुतोपमान एवंविधांश्च देवाभासान् । *सचेतनः क इव भजेन्न कोऽपीतिभावः ॥ ये तु मोहोपहतमतित्वेन तानपि देवान् प्रतिपद्य तदन्यानिवनेन कृतमौना एव तिष्ठन्ति तेऽपि वरम् । परं तदपि दुर्धियो विदधतीत्याह ॥ हा कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशान्निहुवते हाहा देवास्तिकाः परे ॥ ८॥ हे भगवन् परे कुमतग्लपिततत्त्वधियो जठरोपस्थदुःस्थितैरनर्गलरसनस्पर्शनादीन्द्रियविकारविडवितैरपि दैवतैरपि कृतादार्थाः कृतकृत्यमात्मानं मन्यमाना, हाहा इति खेदे, भवादृशान् समूलोन्मूलितसकलेन्द्रियविकारमूलबीजमहामोहानत एव चिदानन्दरूपे परमे ब्रह्मणि विलीनानपि, निह्ववते न किंचिदमीभिरिति सोत्प्रासहासं प्रलपति । एतदप्युचितं स्वीकृतसमस्तदुष्कृतानां नास्तिकानामेते तु हताशास्तैरेव देवैर्देवास्तिकास्त्वादृशान्निढुवती तइ)त्यहो मोहविलसितम् ॥ lain Educy For Private & Personel Use Only A njainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy