SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सविवर. वीतराग. परिमितानि च प्रायः सर्वाण्यसदुत्प्रेक्षणपराण्यप्रामाणिकानि च केवलं धृष्टतयैव गलगजितं कुर्वन्तीत्याह ॥ खपुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति गेहे देहे वा न गेहेनर्दिनः परे॥९॥ | ॥१९॥ हे जगदीश परे त्वदाज्ञावज्ञानपराः, किश्चित् प्रत्यक्षानुमानहेतुदृष्टान्तानामगोचरमत एव खपुष्पप्रायमाकाशकुशेशयसहदशमुत्प्रेक्ष्य स्वचेतसैव संवाद्य तस्यैव च साधकं तद्विधमेव द्वित्र्यवयवादिकं मानं प्रमाणमुपकल्प्य तेनैव न त्व(तत्त्व)मिति-18 प्रत्ययेनोत्तानशिरसः साध्वस्माभिरेवेदं तत्त्वमुपलब्धं इति प्रमोदान्न स्वदेहे न च गेहे संमान्ति । केवलमसकलज्ञक्लृप्तकदा| गमविमुग्धा गेहेनर्दिन एव नतु चतुरङ्गवादविजयगर्जयशसः॥ यदि वा। कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान दुरुच्छेदः सतामपि ॥ १०॥ | हे स्वामिन्नमी परदर्शनिनो मुधैवास्माभिरुपालभ्यन्ते यतो न खल्बमीषामसमञ्जसप्रवृत्तिः स्वायत्ता किन्तु रागायत्ता । रागश्च त्रिविधः कामरागः स्नेहरागो दृष्टिरागश्च । तत्र दंपत्योः परस्परं भावबन्धना प्रीतिः कामरागः, अपत्यादिषु पित्रो-12 रत्यंतवत्सलता स्नेहरागः, अनादौ भवेऽभ्यावृत्त्याभ्यस्तेषु सौगतादिदर्शनेषु गाढाभिष्वंगो दृष्टिरागः येनोन्मत्तकरसेनेवान्तःपरिणतेन लेष्ठुकादिषु कनकबुद्धिरिवातत्त्वेषु तत्त्वबुद्धिरुपजायते। तत्रादिमौ कामस्नेहरागी अनित्यतैकत्वान्यत्वादिशुभभावनाभ्याससमुल्लसिताद्भुतज्ञानगर्भवैराग्यबलबिदलितममत्त्वैः पुंभिरीषत्करनिवारणौ सुकरोच्छेदौ। अयं तु दृष्टिरागो लौकिकानेकहेतुदृष्टान्तविवेचिततत्त्वानां सतामपि मनसो दुरुच्छेदो दुर्निवास्यः अत एव पापप्रवृत्त्यङ्गभूतत्वात्पापीयानेवंवि| धेन दृष्टिरागेण म्लेच्छकन्देनेव दुर्वासिते मनसि कथमहदुपदेशपरिमलः प्रतिष्ठताम् ॥ COCONCEROSAROSAROGRAMINCRECE CRACANCIACALCOHORACHCRAC%% ॥१९॥ Jan Education For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy