SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ SOSIAA-%BESTEX RECORDS ननु यदि तेषां दृष्टिरागेणान्तरिता विचारदृष्टिभंगवतो वीतरागादिरहस्यं न पश्यति तत्किं स्थूलार्थदर्शिनी चर्मदृष्टिरपि तदीयं बहिस्तवमात्रमपि न पश्यति येन तस्मिन्नुदासत इत्येतदेवाह । प्रसन्नमास्यं मध्यस्थे दृशौ लोकंपृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ ___ हे स्वामिस्तव तावत्सुकृतिनां नेत्रयोः प्रथमप्रियातिथिप्रथममास्यमाननं प्रसन्नं कोपादिरहितं, तथा दृशौ नीलोत्प-12 लदीर्घ लोचने मध्यस्थे अरक्तद्विष्टे, तव पञ्चत्रिंशद्गुणोपेतं सर्वभाषापरिणतं वचोऽपि लोकंपृणं भव्याङ्गभाजामन्तःकरणप्री-18 णनपटिष्ठं । इत्युक्तप्रकारेण प्रीतिपदे विश्वानन्ददायिनि प्राकृतजनवत्त्वय्यपि केचिदुदासते यतो बाढमत्यर्थं तेनैव दृष्टिरा-है गेण मूढा मोहितमनसः । यच्च तेषां भगवत्यौदासीन्यं तद्दिवाभीतानां भास्वददर्शनमिव तव्यतिरेकेण कस्यान्यस्य प्रीति विधत्ते ॥ अथवा ॥ ___ तिष्ठेद्वायुवेदद्रिवलेजलमपि क्वचित् । तथापि ग्रस्तो रागाद्यैर्नाप्तो भवितुमर्हति॥ १२ ॥ हे विश्वैकमित्र कियद्वा परगतातत्त्वचिन्ताचक्रारोपणेन स्वान्तःकरणमकरुणैरिव खेदनीयम् । यतः सम्यगुपलब्ध एवायं दाविनिश्चयो यदुत क्वचिद्देशे काले वा अविसंवादिसद्गुरूपदेशस्वन्यस्तशारीरमरुत्संचारक्रमपरिपक्रिमाभ्यासस्य कस्यचिद्यो-18 गिनः कुम्भनशक्त्या विषादिचालनया वायुःसततगतिरपि तिष्ठेत् निश्चलतामाकलयेत् ॥ तथा तथाविधातिप्रवलवीर्यमहौषधप्रयोगात् स्वाराधितदेवतादिप्रभावाद्वा अद्रिगिरिरपि द्रवेत् द्रवरूपतामापद्येत । तथा अचिन्त्यमहिममणिमंत्रादिमाहा-1 त्म्यात्तीर्थमहिम्ना वा कदाचिज्जलं सलिलमपि ज्वलेत् ज्वालामालाकुलमालोकेत । तत्रापि दुर्घटवर्गेऽस्मिन् घटितेऽपि JainEducation For Private Personal Use Only Sw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy