________________
वीतराग
|सविवर.
॥२०॥
रागाद्यै रागद्वेषमोहस्तः स्वरूपं त्याजितः प्राणी नाप्तो भवितुमर्हति उपायशतैरप्याप्तत्वं न जायते । इयमनभावना। महाबलस्खलनादद्रिद्रावणाजलज्वालनादपि रक्तद्विष्टमूढपूर्वकुग्राहिताः सत्येऽप्याप्तवचने प्रत्याययितुं दुष्कराः। श्रयते च " जिनजैमिनिकणभक्षाक्षपादवंदाककपिलसुरगुरुभिः । जगदेकमतीकर्तुं न पार्यते वहतु किमनेन ॥१॥"
इति वीतरागस्तोत्रे विपक्षनिरासषष्टप्रकाशयोजना ॥
MORRORISAREERUAROSAROSARMA
इह हि केचिन्महामोहोपहतमतयः पुण्यपारस्पृष्टानशरीरिणः स्वयंभुवः स्वभावमुक्तस्वस्वरूपान् किल स्वयं कृतकृत्यानपि भुवनजनानुग्रहाय हितोपदेशकान्निजाप्तान्मन्यन्ते तच्च स्तुतिकृत् पुण्यप्रत्यक्षानुपपत्त्या विसंवादयन्नाह । है| धर्माधर्मी विना नाङ्गं विनाङ्गेन मुखं कुतः। मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥
हे विदितसमस्ततत्त्व भगवन् विमुक्तविपक्षविक्षेपोऽहमपक्षपातेन स्वामिनं विज्ञपयामि यदुतामी तावदास्तिकदर्शनिनः सर्वेऽपि दुर्मोच्यमपि गृहवासपाशमुन्मोच्य कुगतिपातभीरवः परमपदार्थे निःस्वस्वागमप्रामाण्येन प्रवर्तन्ते। आगमाश्चाप्तो|क्तयः । तत्र तैराप्तत्वेन प्रतिपन्नास्तेषामागमप्रणेतृत्वमनुपपन्नं । कुतः? आगमा हि वचनरूपाः, वचनानि च वक्तारमन्तरेण न संभवन्ति, वक्तश्च वक्तत्वं वदनाविनाभूतं, वदनं चाङ्गसंगतमङ्गं च धर्माधमौं विना नोपपद्यते । ततस्ते यद्यादित एव पुण्यपापविनिर्मुक्तास्तदा ध्रुवमशरीरिणः, शरीरविरहिताश्च नियतममुखा, निर्मुखाश्च स्तम्भकुम्भांभोरुहादिवन्न परोपदेष्टारः इति यत्किञ्चिदेतत् ।
तथास्य जगतः सृष्टिसंहारावपि पुरुषविशेषकर्तृकावपि केचित् ( वदन्ति ) ब्रुवते च । “ ब्राह्मण मानेन वर्षश
॥२०॥
Jan Education
For Private Personel Use Only
jainelibrary.org