SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education तान्ते वर्त्तमानस्य ब्रह्मणोऽपवर्गकाले संसारे खिन्नानां प्राणिनां निशि विश्रमार्थ सकलभुवनपतेर्महेश्वरस्य सजिहीर्षासम - कालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छाणु संयोगजकर्मभ्यः शरीरेन्द्रियकरणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशस्तथा पृथिव्युदकज्वलन पवनानामपि महाभूतानां अनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य २ विनाशः ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धाश्चात्मानस्तावंतमेव कालं । ततः प्राणिनां भोगभुक्तये महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव पार्थिवेभ्यः परमाणुभ्यस्तेषां तत्क्रमेण महान् सलिलनिधिरुत्पन्नः पोलूयमानस्तिष्ठति । तदनन्तरं तस्मि नेव पार्थिवेभ्यः परमाणुभ्यो व्यणुकादिक्रमेण महापृथ्वी समुत्पन्ना संहतावतिष्ठते । तस्मिन्नेव महोदधौ तैजसेभ्यः परमाणुभ्यो व्यणुकादिक्रमेणोत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिधानमात्रात्तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते, तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सर्वभुवनसहितमुत्पाद्य प्रजासर्गे विनियुंक्ते । स च महेश्वरेण विनियुक्तो ब्रह्मातिशयधर्म्मज्ञानवैराग्यैश्वर्यसंपन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः स्वसुतान् प्रजापतीन्मानसांश्च मनुष्यदेवर्षिपितृगणान्मुखबाहूरुपादतश्चतुरो | वर्णानन्यानिवोच्चावचानि भूतानि सृष्ट्वा आशयानुरूपैर्द्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति तत्सर्वमसङ्गतं कथमित्याह ॥ अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किञ्चित् स्वातन्त्र्यान्न पराज्ञया ॥ २ ॥ For Private & Personal Use Only lainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy