________________
वीतराग.
सविवर.
॥२१॥
यः किलास्य जगतो निर्माता स तावत्परैरशरीरित्वेनाभ्युपगतः, तस्य च स्वयमदेहस्य जगत्सर्गे विश्वनिर्माणे, प्रवृत्तिरेव तावन्नोचिता न हि स्वयमसिद्धः परान् साधयितुमलं। नत्वेवं वाच्यं यदस्य भगवतः सर्वत्राप्रतिहता इच्छेव जगन्निमाणे क्षमा किमन्तर्गडुना देहेनेति । यतः इच्छा ह्यभिलाषरूपा सा च शरीरवत एवात्मनः समीचीना, सकलेच्छाजालविलये चाशरीरता, तस्मादसङ्गतमङ्गविरहितस्यास्य जगन्निर्माणं । ननु यदि पुनः किमपि प्रयोजनमधिकृत्यासौ जगत्सर्गे प्रवर्तते नैवं, प्रेक्षावत्प्रवृत्तिरिष्टाधिगमार्थाय स्यादनिष्टपरिहारार्था वा! न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे प्राप्तसमस्तकामे संभवतस्ततः किमस्य प्रयोजनं । ननु कृतकृत्यस्यास्य माभूत् प्रयोजनं, नचासौ क्वचिदपि पराज्ञया प्रवर्तेत, केवलमस्खलितमस्य जगति प्रभुत्वमतः "प्रभुः स्वातंत्र्यमापन्नो यदिच्छति करोति तत्", ततः स्वातंत्र्यादसौ जगत्सर्गसंहारैः कोडतीति ॥ आचार्यः॥
क्रीडया चेत्प्रवर्तेत रागवान् स्यात् कुमारवत् । ___ हहो यद्यसौ भुवनसृष्टिसंहारेषु क्रीडया विनोदमात्रेण प्रवर्तते तदा नियतं रागवान् स्यात्, क्रीडनविनोदनादीन्येव हि रागनिबंधनान्येव, किंवत् कुमारवत् ॥ यथाहि बालाः प्रावृट्कालादौ शैवलिनीपुलिनादिषु जलक्लिन्नवालुकाभिः प्राकारप्रासादमंदिरारामादीनि विरचय्य क्षणं प्रमुदितमनसः क्रीडंति, कालांतरे च स्वयमेव सर्वमुपसंहृत्य यथागतं यांति, नच तत्प्रवृत्तिः प्रेक्षावतामभिमता, एवं भवदाप्तस्यापीति । परः । यद्येवं नासौ क्रीडया जगति सृजति । किंतु कृपया । आचार्यः॥
॥२१॥
Jain Education
Lotonal
For Private & Personel Use Only
jainelibrary.org