SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education कृपयाथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥ ३ ॥ भोः पर इदमपि भवद्विकल्पितं न प्रमाणपदवीमासादयति । पश्य यद्यसौ परमकारुणिकः कृपया करुणया सृजति तदा जगदप्यमन्दलक्ष्मीपरिस्पन्दसंपद्य मानस कलमनोभिलषितार्थसार्थसुस्थितं मुख्येव किं न सृजेत् । नचैतदेवं ततश्च । दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् ॥ जनं तु सृजतस्तस्य कृपालोः का कृपालुता ॥ ४ ॥ तत्र दुःखं कायवाङ्मानसं दौर्गत्यं दरिद्रता, दुर्योनिः तिर्यग्नारकादिका, जन्ममरणसमये च दुरंतो वेदनासमुद्धात इत्यादिभिः क्लेशैर्विह्वलं विवश, जनं भुवनलोकं, कृपालोरपि तस्य सृजतः का नाम कृपालुता ? प्रत्युत निर्निमित्तं निर्द्दयत्वमेवेति । परः नन्वसावपि प्राणिनां धर्माधर्मावपेक्ष्य कर्मानुरूपमेव फलं प्रदातुमलम्, न पुनर्न्यूनाधिकम् । आचार्यः । कर्मापेक्षः स चेत्तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ॥ ५ ॥ हे सरल स्वभाव चेद्यदि सोऽप्यतिशयज्ञानवैराग्यैश्वर्ययुक्तो भवदाप्तः, प्राणिनां शुभाशुभफलदानावसरे कर्मापेक्षः कर्मणो मुखमीक्षते, तर्हि शश्वत्कर्मपरतंत्रोऽस्मदादिवत् न स्वतंत्रः, परायत्तस्य च किमीश्वरत्वं । तदेवमस्मिन् जगति तिर्यग्नारकनरामरसुखितदुःखितसधनदुर्भग स्वामिसेवकादिवैचित्र्ये निखिलेऽपि कर्मजन्ये कर्मोत्पाद्ये, अनेन भवदाप्तेनेश्वरादिना शिखण्डिना सर्वथैवाकिंचित्करत्वात्तृतीयप्रकृतिना किं न किञ्चिदित्यर्थः । एवं च किमन्यान्यगवेषणया ? सर्वत्र स्वातंत्र्येण व्यवहरतः कर्मण एव भवत्वप्रतिहतत्वं । पठन्ति च । " नमस्यामो देवान्नानु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि | प्रतिनियत कर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किंच विधिना नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १ ॥” For Private & Personal Use Only w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy