SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥२२॥ परः।ननु किमनेन पृथग्जनोचितेनालापचापलेन? सहि भगवान्महेशस्ततोऽस्य विश्वनिर्माणादिका वृत्तिश्चेष्टा अविता सविवर. कथं किंनिमित्तं वा जगन्त्यसौ सृजतीति न वितर्कणीया, कुतः? स्वभावतः जगत्कृतिसंहृतिरूपः स्वभाव एवास्य, स च न पर्यनुयोगमहतीति ॥ आचार्यः। अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तर्खेष परीक्षाक्षेपडिण्डिमः ॥ ६॥ हहो साधु समर्थमुक्तवानसि । परोपरुद्धानां हि दुर्बलवादिनां स्वभावात् किमितरेण किमन्यदपयानद्वारं । एवं भवदातनिश्चिताप्तत्वपरीक्षकाणामेष तत्स्वभावोक्तिलक्षणः परीक्षाक्षेपडिण्डिमः, केनाप्यस्य परीक्षा न विधेयेति प्रतिषेधार्थ पटहघोष एव, स च तत्त्वतोऽकीर्तिपटहघोष एव । कुतः । यत्किलैहिकप्रयोजनमानसाधकं कनकाापादीयते तदपि तदर्थिभिः कषतापताडनच्छेदादिपरीक्षापूर्वकमेव, यस्माच्च सर्वोत्तमा परमपदावाप्तिरिष्यते, स कथं प्रक्षापूर्वकारिभिरपरीक्षितेः परि-18 ग्रहीष्यते इति यत्किञ्चिदेतत् । | एवं च यौक्तिकोक्तिनिरुत्तरः परोऽभ्युपगमकाम इवाचार्यमाह । साधु भगवन्नविसंवादसुंदरेयं भगवद्भणितिरेनमेव चार्थमस्मद्वर्या अपि पठन्ति “ अत एव निरीक्ष्य दुर्घटं जगतो जन्मविनाशडंबरम् । न कदाचिदनीदृशं जगत् कथितं | नीतिरहस्यवेदिभिरिति ।१॥” तस्मादिदमिह रहस्यं यत् किलास्मत्प्रभुन खलु जगति सृजति, किंतु विशिष्टज्ञानबलाद्विश्व-6| ॥२२॥ विश्वतत्त्वं जानीते । आचार्यः॥ Jain Educatio n al For Private Personal Use Only N w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy