________________
Jain Education
सर्वभावेषु कर्तृत्वम् ज्ञातृत्वं यदि संमतम् ॥ मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ साधु सत्यमसि प्रेक्षापूर्वकारी? ततो यदि भूधरादिषु सर्वेष्वपि चराचरेषु भावेषु भवतो निजाप्तस्य ज्ञातृत्वमेव कर्तृत्वं संमतम्, ततोऽस्माकमेवमेतत्सुतर संमतं यतोऽस्मदाप्ता अपि भगवंतो विमलकेवला लोकदर्पणसंक्रान्तविश्वविश्वस्व| रूपावलोकित्वेन संति सर्वज्ञाः। भवबीजाङ्कुरजन करागाद्यत्यन्ताभावेन च मुक्तः, तथाविधभवोपग्राहिकर्मचतुष्टयपारतंत्र्यात् किञ्चित्कालं कायभृतश्चेति न किंचिदसंगतं ॥ एवं स्तुतिकृद्भगवदनुग्रहादुन्मीलद्विमलविवेकाभ्युपपत्तिपरान्परानाधाय प्रकृते वीतरागस्तवे योजयन्नाह ॥
सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ प्रसीदसि ॥ ८ ॥
विहितमतप्रमाथ नाथ पूर्वोक्तप्रकारेण पुरुषविशेषकृतायाः सृष्टेर्वादः सृष्टिवादः स एवासहरूपत्वेन कुहेवाकः कदभिनिवेशस्तमुन्मुच्य परित्यज्य, किमित्याह इति प्रागुक्तयुक्त्या, अप्रमाणकं प्रमाणानुपपन्नं, प्रमाणोपपन्नश्चतुर्दशरज्ज्वात्मकस्यापि लोकस्यायमेव वादो यदुत “निष्पादितो न केनापि न धृतः केनचिच्च सः । स्वयंसिद्धो निराधारो गगने किन्त्ववस्थि| त । १।” इति । एवंविधे च त्वच्छासने त्वत्प्रवचने, त एव रमन्ते इदमेव तत्त्वमिति स्वहृदा संवाद्य त एव मोदंते, येषां सुकृतप्राप्यप्रसादस्त्वं प्रसीदसि प्रसादसुमुखो भवसि । इयता च सर्वात्मना त्वत्प्रसादलभ्या एव शुभसंपदो भव्याङ्गभाजामर्थापतितम् ॥ इति श्रीवीतरागस्तोत्रे जगत्कर्तृत्वनिरासस्य सप्तमप्रकाशस्य पयोजना |
For Private & Personal Use Only
ainelibrary.org