________________
सविवर.
वीतराग. ननु सिद्धं स्वयंसिद्धं जगत्तत्त्वं किमेकान्तनित्यमुतैकान्तानित्यं वेत्याशङ्कासंकुले विपश्चित्कुले स्तुतिकृदाह ॥ ॥२३॥
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाहतागमौ । स्यातामेकान्तनाशेपि कृतनाशाकृतागमौ ॥१॥ उत्पादव्ययध्रौव्यात्मकं वस्तुतत्त्वं सत्त्वं तस्यैकान्तनित्यत्वेऽभ्युपगम्यमाने कृतनाशाकृतागमा स्यातां। तथाहि-साङ्खयैरप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थनित्यं वस्त्वभ्युपगम्यते । तच्च यद्येवं स्यात्तदा वस्तुनि घटादौ कुम्भकारादिकृतानां पर्यायाणां सर्वथा नाश एव स्यात् एतच्च प्रत्यक्षविरुद्धम् । यतः। कुम्भकारादिभिर्निर्मीयमाणाः स्थासकोशकुशूलपृथुबुध्नोदराद्याकाराः कृशाकृशरूपतया क्षणे क्षणे दरीदृश्यते । अतस्तेषां पर्यायाणामाविद्वङ्गनाप्रतीतानां कृतानां विनाश एव स्यात् । ते च यदि न कृतास्तदा घटोप्यकृत एव स्यात् । कृतेष्वेव च तेषु घटोऽपि कृतः। एवं च सति नित्यताक्षतिः ॥ तथा अकृतागमसंगमोऽपि स्यात्तथाहि-पर्यायास्तावत्तन्मते कूटस्थनित्यत्वादेव केनचिन्न कृताः। अकृता एव च समुपस्थिताः। यदि कृतास्तदा घटस्यापि कृतकत्वे नित्यपक्षक्षतिः। एतच्चानुष्णोऽग्निरित्यादिवत् प्रत्यक्षविलक्षणमकृतागमस्वरू
पं कः सुधीः श्रद्दधीत । तथा तथागतपरिकल्पिते स्वलक्षणस्य सर्वथा क्षणिकैकांतपक्षेऽपि कृतनाशाकृतागमौ स्थिरस्थेमाइनमवलंबमानौ दुर्निवारावेव स्यातां । यतः सर्वथैव तदभिमते वस्तुनि स्वीक्रियमाणे पर्यायाणां निराधारत्वेन स्थातुमशक्ती
घटादेरनुत्पाद एव प्रसज्येत । पूर्वक्षणे यद्यद्धटादि द्रव्यमासीत्तद्वितीयक्षणे सर्वथा निर्हेतुकं विनष्टमेव । तत्कस्य स्थासकोशकुशूलादिसंस्कारविधानं विधातुमुचितं । दृश्यते प्रत्यक्षादिप्रमाणैः संस्कारा अतस्तन्मते कृता अप्यकृताः स्युः, तथा निरन्वयिनि चरे वस्तुनि संस्काराणामुत्पादयितुमशक्यत्वात् कुतः स्थासादीनां पर्यायाणामवकाशः। अतः प्रतीयते । तन्म-18
ॐROMARCRACAMSROSECSC
दि
Jain Education
For Private & Personal Use Only
R
ainelibrary.org