________________
कीटविशेषो द्युतिमालिनः सहस्रभानोः किं क्वचिद्देशे काले विपक्षो भवेदेवं यथा ज्योतिरिंगणस्य गभस्तिमालिना तुला दुलभा तथा सरागस्य वीतरागेणेतिभावः॥ ननु योगोपनिषन्निषेवणाद्भगवतस्तावदेवं महिमा ततस्तदभ्यसनेन परेपि तथा भविष्यतीत्याशंक्याह॥ स्पृहयंति त्वद्योगाय यत्तेऽपि लवसप्तमाः॥ योगमुद्रादरिद्राणां परेषां तत्कथैव का ॥४॥ हे सिद्धाद्भुतयोग भगवंस्त्वद्योगाय तव योगोपनिषदे आसतामणिमादिमहर्द्धयः किंतु तेपि परमपदोपकंठप्रतिमा लवसप्तमा अनुत्तरसुराः स्पृहयंति। यदुताहो मंदभाग्यानामस्माकं सप्तलवन्यूने पूर्वभवायुषि वीतरागोपगा योगसमृद्धिर्न संघटिता कदा पुनरिमां प्राप्स्याम इत्यहरहः स्पृहामावहंति । तस्यैवंविधस्य त्वद्योगस्य परेषां कथापि वार्तापि कौतस्कुती। किंविशिष्टानां वहिर्देहसंस्थानरूपया योगस्य मुद्रया दरिद्राणां निःस्वानां । तथाचायमेव स्तुतिकृत् स्तुत्यंतरे प्राह । “वपुश्च पर्यंकशयं श्लथं च दृशौ च नाशानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेंद्र मुद्रापि तवान्यदास्तामिति ।" एवं योगमुद्रयापि दरिद्राणां तेषां तपस्विनां कुतस्त्वद्विपक्षतेति ॥ एवं स्थिते यद्विधेयं तदाह ॥
त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे ॥ त्वत्तो हि न परस्त्राता किं ब्रूमः किमु कुर्महे ॥ ५॥ __ अत्राद्यपदत्रयमुत्तरपदत्रयेण यथाक्रम योज्यं । तथाहि हे विश्ववत्सल यत एतदेवमतो वयमांतरारातिपरित्रस्तास्त्वामेव यथार्थ नाथं प्रपद्यामहे शरणमितिशेषः । यस्मादस्मिन् जगति अस्माद्भयात्त्वदपरः कोऽपि न परित्राता इत्युत्तरेण योगः । तथा त्वामेव समस्तस्तुत्यगण्यमन्वर्थाभिः स्तुतिभिः स्तुमः अत एव तव स्तवादधिकं किमन्यद्रूमः तन्मात्रफल
Jain Educatiod
i onal
For Private & Personal Use Only
O
w
.jainelibrary.org