________________
SHOCALCRECIRCREAMICROSOSong
81 नाविर्भवंति यद्भूमौ मूषकाः शलभाः शुकाः ॥ क्षणेन क्षितिपक्षिप्ता अनीतय इवेतयः ॥ ५॥
साग्रेऽपि योजनशते इत्यनुवर्तते। यच्चैतावति क्षेत्रे त्वयि विहरति भूमावीतयो नाविर्भवंति न प्रादुर्भवंति । किंरूपा इत्याह । मूषकाः शलभाः शुकाः मूषकशलभशुकरूपाः सकलशस्यसंपद्विलोपनप्रवणाः।का इव अनीतय इव। यथा क्षितिपेन धर्मविजयिना राज्ञा क्षणेनोत्पत्तिसमनंतरमेव क्षिप्ताः पर्यस्ता अनीतयोऽधर्माचरणानि भूमौ नाविर्भवंति तद्वद्भुवनबांधवविहारादीतय इत्यहो त्वद्योगगरिमा ॥
स्त्रीक्षेत्रपद्रादिभवो यद्वैराग्निः प्रशाम्यति ॥ तत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले॥६॥ __यच्चास्मिन् भुवस्तले त्वयि विहरति योजनशतांतर्वैराग्निः प्रशाम्यति वैरं विरोधः स एव स्वपरयोरुपतापकारित्वेना|ग्निः, किंविशिष्टः स्त्रीक्षेत्रपद्रादिभवः स्त्रियः कामिन्यः क्षेत्राणि शस्योत्पत्तिभूमयः पद्राणि ग्रामनगरादीनां संनिवेशवसुमत्यः आदिशब्दात् कौटुंबिकादिपरिग्रह एभ्यो भव उत्पत्तिर्यस्य स तथा । भवत्येव स्त्रीप्रभृतिभ्यो रामरावणपांडवकौरवादीनामिव कुलोच्छित्तिनिवंधनो वैरानुबंधः स चैवंविधोऽपि प्रशाम्यति । प्रशमहेतुमाह । त्वत्कृपेत्यादि तव संबंधिनी कृपा त्वत्कृपा सर्वसत्वसाधारणी कारणनिरपेक्षा करुणा सैव जगजंतुजातजीवातुत्वेन पुष्करावर्त इव तस्य वर्षस्तस्मादिव । इदमत्र हृदयं किल काष्ठादिसंघर्षसमुद्भवो ह्यग्निः सामान्यपर्जन्यधारासारमात्रणेवोपशाम्यति । अस्य च दुर्धरवैरानुबंधधनंजयस्य त्वत्कृपापुष्करावर्ताहते क इवान्यः प्रशमोपाय इति । यच्चैतदेवं स तवैव योगसंपत्परभागः॥ अन्यच्च ॥3
Jain Education
a
l
For Private Personel Use Only
Olainelibrary.org