________________
वीतराग.
॥४२॥
महीयसामपि महान् महनीयो महात्मनाम् । अहो मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥८॥ 18 सविवर. __ एवं ममायं स्वामी स्तुतेर्गोचरमियाय किंविशिष्टः तिर्यग्नराद्यपेक्षया सुरासुरप्रभृतिदेवानां महीयसामपि देवाधिदेवत्वेन महान् सर्वोत्कृष्टः । तथा महात्मनामन्तर्मुहूर्त पदत्रयाधारेण विरचितद्वादशाङ्गानां गणभृतामहदन्येषामपि विविधलब्धिमतां मुनीनां गुणाधिकत्वेन महनीयः पूजनीयः। अहो इति विस्मये । सोऽप्येवंविधः स्वामी परमात्मा पुरन्दरस्यापि गिरामगोचरस्तुतिः ममापि मन्दमेधसः स्तुवतः स्तोतुमुपक्रान्तस्य केनापि चिरसंचितसुकृतवशेन स्तुतेः स्तवनस्य गोचरं विषयमागमदवततारेत्यहो ममाप्यगण्यपुण्यतेति ॥
इति वीतरागस्तोत्रे महिमस्तवस्य एकादशस्य पदयोजना ॥
ROCCASSOCCARROCCROS
एवं महिमस्तवमभिधाय साम्प्रतं यन्मूलेयमहतां वीतरागत्वख्यातिस्तदेव वैराग्यं वैराग्यस्तवेन स्तुतिकृत् प्रस्तौति ॥ पढभ्यासादरैः पूर्वं तथा वैराग्यमाहरः। यथेह जन्मन्याजन्म तत्सात्मीभावमागमत् ॥ १॥ हे अभङ्गुरवैराग्यसुभग भगवंस्त्वं पूर्व प्राग्भवेषु पटुभिरनाविलैरभ्यासादरैरासेवनसातत्यैस्तथा कथमपि वैराग्यं विरागताप्रकर्षमाहरः सम्यगात्मन्युपनीतवान् । यथेह जन्मन्यर्हद्भवलक्षणे तद्वैराग्यं सात्मीभावमागमत् शैलीमुपेयाय । अत एवाजन्म जन्मनः प्रभृति यत्सहोत्पद्यते तदेव सात्म्यं । इदमुक्तं भवति । किल द्विविधो हि गुण औपाधिकः सहोत्थश्च
॥४२॥
Jain Education
For Private & Personel Use Only
ainelibrary.org