________________
वयमर्जितं भवन्ति च समाजाणारसपेशलमनसा भवभयातपथप्रतिपंथित्वेन दण्ड
व्यनक्ति। किंविशिष्टेन त्वया रागादिषु रागद्वेषमोहप्रभृतिषु नृशंसेन निर्दयहृदयेन मुक्तिपथप्रतिपंथित्वेन दण्डसाध्यत्वात्तेषां, तथा सर्वात्मसु सर्वसत्त्वेषु कृपालुना निष्कृत्रिमकरुणारसपेशलमनसा भवभयादितत्वेन तेषामनुकम्प्यत्वात् । एवं त्वया उच्चैः सर्वाद्भुतं साम्राज्यमर्जितं भवन्ति च सम्राजोऽपि भीमकान्तगुणाः ॥ अपरं च॥
सर्वे सर्वात्मनान्येषु दोषास्त्वयि पुनर्गुणाः। स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः ॥७॥ हे भुवनाद्भुतचरित्रपात्र भगवन् सर्वेऽप्येवंप्रकारा भावा अन्येषु त्वद्विधादपरेषु कुतीर्थिकदैवतेषु ये दोषास्त एव त्वयि सर्वात्मना गुणास्तथाहि-यैव क्षमापरैः परिभवहेतुत्वेन कापुरुषचेष्टितमिदमिति दोषतया प्रत्युक्ता सैव जगद्धंसनरक्षणक्षमपराक्रमेणापि त्वया दुर्द्धरक्रोधयोधविध्वंसनावन्ध्यप्रहरणमिदमिति सविशेषमादृता । यैव च निर्ग्रन्थता परैभिक्षुकवृत्तिरियमिति त्रपाहेतुत्वेन तिरस्कृता सैव निःस्पृहशिरोमणिना त्वया इयमेव सङ्गत्यागस्य मूलकारणमिति सादरं पुर
स्कृता । यदेवापकार्युपकारिषु प्रसादाप्रसादकरणमगुणज्ञत्वमिदमिति परैर्दूरादपास्तं तदेव त्वया इदमेव वीतरागत्वमूलहै बीजमिति सुतरामुररीकृतम् । एवं य एवान्येषु दोषास्त एव त्वयि गुणतया परिणमन्ति । इयं च स्तुतिः सद्भूतवस्तु
तत्त्वप्रकटनेन यद्यपि यथार्था, तथापि केषाञ्चिन्महामोहोपहतमतीनां मिथ्येयमितिचेन्मतिमुत्पादयति; तदा तन्मतेन वयं दृष्टिरागरक्ता इत्यप्रमाणम् , अस्मन्मतेन च ते मत्सरिणः पूर्वव्युदाहिता द्विष्टा इत्यप्रमाणं, केवलं कुलजाः क्षमावन्तः पक्षद्धयसम्मताः प्रेक्षापूर्वकारिणः सकलशास्त्रार्थरहस्यनिष्ष्यन्दनिष्णातमतयस्तुलासमानाः सभासदः सभ्या एवात्रार्थे प्रमाण मध्यस्थपरीक्षया हि जात्यकाञ्चनाद्युक्तिकनकं पृथक् भवत्येव ॥ एवं च ।।
B
Jain Education Hara
का
For Private & Personal Use Only
alinerary