SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ SSACRORESEASEARCH हे सुरासुरनाथ यदि त्वमीषदूनसप्तरजुप्रमितक्षेत्रस्थितानामप्यनुत्तरस्वर्गिणा पश्चोत्तरसुराणामिह स्थित एव संशयान् जीवादितत्त्वगोचरान् संदेहान् हरसेऽपनयसि । श्रूयते हि किलानुत्तरसुराः समुत्पन्नसंशयास्तत्रस्था एव मनसा स्वा| मिनं पृच्छन्ति, भगवांस्तु विमलकेवलालोकादवधार्य तदनुग्रहाय स्वमनसि तदुत्तरं धारयति ते च संभिन्नं लोकना-16 | लिमप्रतिबद्धेनावधिना पश्यन्तः स्वामिनो रूपं मनोगतमुत्तरं प्रतिपद्य प्रमोदमेदुराः संपद्यन्ते अतस्त्वामन्तरेण कस्यापर|स्येयमनुत्तरसुरसन्देहव्यपोहलक्षणा जगद्विलक्षणा शक्तिः । कश्चातः परोऽपि तव गुणो वस्तुतः परमार्थतः स्तुत्योऽस्यैव सर्वोत्तमत्वादिति ॥ किंच ॥ इदं विरुद्धं श्रद्धत्तां कथमश्रद्दधानकः । आनन्दसुखसक्तिश्च विरक्तिश्च समं त्वयि ॥४॥ _हे श्रद्धेयसकलाद्भुतचरित्र स्वामिन्निदं वक्ष्यमाणमश्रद्दधानकः श्रद्धावन्ध्यहृदयः कथं केन प्रकारेण श्रद्धत्तां तथेति || प्रतिपद्यतां यतो विरुद्धमयोक्तिकमेव तदाह । आनन्देत्यादि । त्वयि विषये आनन्दसुखसक्तिर्विरक्तिश्च तत्र सुखसक्तिः सङ्गरूपा विरक्तिश्च सङ्गत्यागरूपा एतयोश्च परस्परविरुद्धयोः कथमेकत्र वासः । यदि पुनः पयायेण भविष्यत इत्याह । समं युगपत् । अथ परानन्दरूपे सुखे सक्तिर्ज्ञानगर्भवैराग्यरूपा च विरक्तिर्भगवति वीतरागे युगपदवस्थितैवेति न कश्चिद्विरोधः । एवमप्यश्रद्दधानान्निजानवबोधेनैव निहतांस्तपस्विनः कः प्रत्ययायतु ॥ किंच ॥ नाथेयं घट्यमानापि दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५॥ १ प्रत्याययतु। Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy