SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर, ॥३९॥ हे त्रिजगतीनाथ इयमपि द्वयी विविधविधिभिर्घव्यमानापि त्वदपरस्मिन् पात्रे कथं केन प्रकारेण घटतां संवदतु | यतो दुर्घटा अर्वाक्दृष्ट्या विसंवादिनी । तामेवाह उपेक्षेत्यादि। उपेक्षा उपकारिता च । तत्र उपेक्षा औदासीन्यं उपकारिता प्रियकारित्वं अतो यः किलोपेक्षकः स कथमुपकारीति दुर्घटत्वं । प्रकृते तु भगवतां श्रीमदहतां वीतरागस्वभावादेवोपकार्यनुपकार्यादिषु सर्वेष्वपि सत्त्वेषु रागद्वेषाभावेन माध्यस्थ्यमुपेक्षा, धर्मतीर्थप्रवर्त्तनेन च तेष्वेव परमा सर्वोत्तमा भावोपका|ररूपा उपकारिता न चैतत्तेष्वनुपपन्नमिति ॥ अपरं च ॥ द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च या चोच्चैश्चक्रवर्तिता ॥ ६॥ ___ हे अप्रमेयमहिमन् भगवन्निदमपि द्वयं विरुद्धं स्थूलदृष्टया परस्परविसदृशं तवैव दृश्यतेन पुनरितरस्य त्वद्विधादितरस्य कस्यचिदपि । किं तदित्याह । निर्ग्रन्थेत्यादि । निर्ग्रन्थता या परा निर्ग्रन्थता या चोच्चैश्चक्रवर्त्तिता । तत्र निर्ग्रन्थता सर्वसङ्गपरित्यागेनाकिञ्चन्यं चक्रवर्त्तिता च धर्मसम्राटपदवी अतो यस्यैव यदैव निर्ग्रन्थता तस्यैव तदैव कथं चक्रवर्तितेति विरुद्धम् । परिहारे तु स्वामिनः सर्वविरतिप्रतिपत्तिप्रस्तावे पटप्रान्तविश्रान्ततृणवदवगणितधनधान्यकलत्रपुत्रराज्यराष्ट्रदेशकोशादिपरिग्रहस्यासामर्थ्यलभ्यैव निर्ग्रन्थता, तथा वीतरागत्वेन विलीनप्रभुत्वाभिलाषस्यापि परमाहन्त्यप्रभावादुपनतश्वेतातपत्रत्रयमृगेन्द्रासनकनककमलधर्मचक्रमहेन्द्रध्वजकोटाकोटिप्रमितसुरासुरनरोपास्तिव्यक्ता धर्मच|क्रितापि भगवतः सङ्गतैव । केवलमरतिरतिकारणयोर्निर्ग्रन्थत्वचक्रवर्तितयोः सद्भावेऽपि स्वामिनः परमसाम्यलीलेति न किञ्चिदसमीचीनम् । अन्यच्च ॥ ॥३९॥ JainEducation intermanic For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy