________________
वीतराग.
सविवर,
॥३९॥
हे त्रिजगतीनाथ इयमपि द्वयी विविधविधिभिर्घव्यमानापि त्वदपरस्मिन् पात्रे कथं केन प्रकारेण घटतां संवदतु | यतो दुर्घटा अर्वाक्दृष्ट्या विसंवादिनी । तामेवाह उपेक्षेत्यादि। उपेक्षा उपकारिता च । तत्र उपेक्षा औदासीन्यं उपकारिता प्रियकारित्वं अतो यः किलोपेक्षकः स कथमुपकारीति दुर्घटत्वं । प्रकृते तु भगवतां श्रीमदहतां वीतरागस्वभावादेवोपकार्यनुपकार्यादिषु सर्वेष्वपि सत्त्वेषु रागद्वेषाभावेन माध्यस्थ्यमुपेक्षा, धर्मतीर्थप्रवर्त्तनेन च तेष्वेव परमा सर्वोत्तमा भावोपका|ररूपा उपकारिता न चैतत्तेष्वनुपपन्नमिति ॥ अपरं च ॥
द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च या चोच्चैश्चक्रवर्तिता ॥ ६॥ ___ हे अप्रमेयमहिमन् भगवन्निदमपि द्वयं विरुद्धं स्थूलदृष्टया परस्परविसदृशं तवैव दृश्यतेन पुनरितरस्य त्वद्विधादितरस्य कस्यचिदपि । किं तदित्याह । निर्ग्रन्थेत्यादि । निर्ग्रन्थता या परा निर्ग्रन्थता या चोच्चैश्चक्रवर्त्तिता । तत्र निर्ग्रन्थता सर्वसङ्गपरित्यागेनाकिञ्चन्यं चक्रवर्त्तिता च धर्मसम्राटपदवी अतो यस्यैव यदैव निर्ग्रन्थता तस्यैव तदैव कथं चक्रवर्तितेति विरुद्धम् । परिहारे तु स्वामिनः सर्वविरतिप्रतिपत्तिप्रस्तावे पटप्रान्तविश्रान्ततृणवदवगणितधनधान्यकलत्रपुत्रराज्यराष्ट्रदेशकोशादिपरिग्रहस्यासामर्थ्यलभ्यैव निर्ग्रन्थता, तथा वीतरागत्वेन विलीनप्रभुत्वाभिलाषस्यापि परमाहन्त्यप्रभावादुपनतश्वेतातपत्रत्रयमृगेन्द्रासनकनककमलधर्मचक्रमहेन्द्रध्वजकोटाकोटिप्रमितसुरासुरनरोपास्तिव्यक्ता धर्मच|क्रितापि भगवतः सङ्गतैव । केवलमरतिरतिकारणयोर्निर्ग्रन्थत्वचक्रवर्तितयोः सद्भावेऽपि स्वामिनः परमसाम्यलीलेति न किञ्चिदसमीचीनम् । अन्यच्च ॥
॥३९॥
JainEducation intermanic
For Private
Personal Use Only