SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ SURESAMRECACCORRECORE नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः ॥७॥ हे सकलाश्चर्यचर्यानिलय यस्य तव कल्याणपर्वसु गर्भावतारजन्मनिष्क्रमणज्ञाननिर्वाणोत्सवेषु तावदासता संभाव्यसु| खासुभवाः सुरनरादयः किंतु दुर्वारदारुणवेदनोदयादिता नारका अपि मोदन्ते सुखलवानुभवनेन मुदमुद्वहन्ति । तस्य | विश्वैकमित्रस्य पवित्रमनुस्मरणमात्रेणैव पावनं चरित्रं भुवनाद्भुतं चारित्रातिशयं को नाम सहजनिजप्रज्ञावज्ञातवाचस्पतिविभवोऽपि वर्णयितुमुपस्तोतुं क्षमः समर्थो? न कोऽपीति भावः ? ॥ एवं च शमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ८॥ हे समस्ताद्भुतभवन भगवन् कियद्वा तवाद्भुतमभिधीयतेऽस्माभिः यतस्तावत्रिजगताप्यतुलिते बले सत्यपि उपद्रवत्सु क्षुद्रात्मसु सम्परायपराजयजन्मा मिथ्याभिनिवेशोपशमसमुत्थश्च तव शमः प्रशमोऽद्भुतः सर्वातिशायी । तथा रूपं स्वाभाविकं शरीरसौन्दर्यं तदपि प्रागुक्तयुक्त्यैवाद्भुतं निरुपमं । तथा सर्वेष्वप्यात्मसु चराचरेष्वपक्षपातेन साधारणा कृपा करुणाप्यद्भुता लोकोत्तरा एवंप्रकाराणामन्येषामपि कल्याणरूपाणां सर्वाद्भुतानां येन निधयः शेवधयस्तेषामीशाय स्वामिनेऽत एव भगवते परमैश्वर्यनिलयाय तुभ्यं भुवनोत्तमाय नमो नमस्कारोऽस्तु त्वां प्रति त्रिकरणशुद्ध्या प्रयतः प्रणमामीति॥ इति वीतरागस्तोत्रे दशमस्याद्भुतस्य पयोजना ॥ Jain Education For Private & Personel Use Only Nw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy