SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ वीतराग | मत्प्रसत्तिस्त्वत्प्रसादानुभाविनी त्वय्येव प्रसन्ने भवति, एवं चेतरेतराश्रयदोषः, सचानुगृहीतो निरङ्कशं प्रसरन्नुभयोर | सविवर. प्यभावाय प्रभवति । तस्मादुत्तमवत्सल त्वमेनमन्योन्याश्रयं भिन्धि व्यपनय । तदपनयने उपायमाह । प्रसीद मयीति। कि॥३८॥ मुक्तं भवति । महेच्छतुच्छयोर्मतङ्गाजमशकयोरिव सुदूरमन्तरं ततस्त्वं महेच्छतया निसर्गकारुणिकत्वेन च तुच्छां मत्प्रसत्तिमवगणय्य प्रथममेव प्रसादसुमुखो भव, प्रसन्ने च त्वय्यवश्यंभाविनी मत्प्रसत्तिरेवं चान्योन्याश्रयोऽपि दूरादपास्त | इति न किञ्चिदचतुरस्रम् । तथा ॥ निरीक्षितुं रूपलक्ष्मी सहस्राक्षोऽपि न क्षमः। स्वामिन् सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥ _हे स्वामिन् सर्वाद्भुतनिधान तव किमेकमद्भुतं वर्ण्यतां तथाहि-तव रूपलक्ष्मीमनुत्तरसुरैरपि स्पृहणीयां सर्वोत्तमामहनुपाधिमधुरां शरीरशोभामासतां तावविनयनीदुःस्थाः सुरासुरनरादयः किंतु सहस्राक्षः सहस्रलोचनः शक्रोऽपि निरी क्षितुं यथावत्परिच्छेत्तुं न क्षमो न समर्थः निरुपमत्वात्तस्याः । श्रूयते चाप्तोक्तिषु “ सव्वसुरा जइ रूवं अंगुठ्ठपमाणयं विउविज्जा । जिणपायंगुलु पइ न सोहए तं जहिंगालो" इति । तथा तव संबन्धिनो लोकोत्तरज्ञानदर्शनवैराग्यश्वर्यप्रमुखान् गुणानास्तामेकजिह्वः सहस्रजिह्वो दशशतरसनोऽपि वक्तुं निःशेषतया वर्णयितुं परिमातुं वा न शक्नोति निरव-14 धित्वात् तेषां । पठन्तिच " यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारपरार्द्ध गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यादिति”॥ तेषां गुणानामेव वर्णिकामात्रमुपक्षिपन्नाह ॥ संशयान्नाथ हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः ॥३॥ CAREERRORRECOGN Jain Education a l For Private & Personel Use Only Harjainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy