SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ । बहुदोषो दोषहीनात्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात् फणीन्द्र इव रत्नतः ॥ ८॥ हे जगल्ललाम त्वं तावजगत्यपि सर्वोत्तमत्वेन शोभसे अयं तु कलिस्त्वत्तोऽप्यशोभत । यदि पुनर्गुणाधिकः स्यादित्याह। बहुदोषो निखिलदोषास्पदं । त्वत्तः किंविशिष्टाद्दोषहीनादोषाणुनाप्यस्पृष्टात्, दोषोत्कर्षेणैव च तस्य त्वत्तः समुत्कर्षः । इदमेव दृष्टान्तेन स्पष्टयति । विषेत्यादि । यथा फणीन्द्रः पन्नगपतिः शोभते । किंविशिष्टो विषयुक्तः प्रबलगरलकलितः कस्माद्रत्नतः स्वमौलिमणेः, किंविशिष्टात् विषहरात् विषदोषनिग्राहकात् । नच फणमणेः फणी कदाचिदप्यधिकः तथैव त्वत्तः कलिः, केवलमस्मिंस्त्वदर्शनलाभो ममाभूदिति निर्गुणस्याप्युपकारिणोऽस्य प्रशंसा विदधे व्यतिरेके तु कृतघ्नत्वं | स्यात् । एतत्पक्षपातहेतुविचारणायां च स्तुतिकर्तुस्तत्त्वतो भगवद्गुणपक्षपात एवेति समञ्जसम् । इति श्रीवीतरागस्तोत्रे नवमस्य कलिस्तवस्य पदयोजना ॥ जगत्प्रतिकूलमप्येवं भगवद्दर्शनदानेनानुकूलं कलिमुपश्लोक्याद्भुतस्तवं स्तुतिकृत् प्रस्तावयन्नाह ॥ मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि प्रसीद भगवन्मयि ॥१॥ हे भगवन् परमैश्वर्यसंपन्न किल यस्मादैहिकमल्पमात्रमपि फलमिष्यते सोऽपि तदर्थिभिराभिमुख्यमानीय प्रसाद्यते, मया तु त्वत्तः सर्वोत्तमं परमपदमभिलपता त्वं सविशेष प्रसादनीयः, सच त्वत्प्रसादः प्रथमं मत्प्रसत्तिमपेक्षते । किल यदाहमरक्तद्विष्टेन परमसमभावभावितेन मनसा त्वदाज्ञां सम्यगाराधयामि तदा त्वं प्रसीदसि, सा च परमसाम्यरूपा Jain Education a l For Private & Personal Use Only JWRjainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy