SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥३७॥ Jain Education | न्मरुपान्थेन खरतरखरांशुकरालांशुजालज्वलितगात्रेण शाखाशतस्फातः शाखी लभ्यते, यथा च हिमे सति हिमानी संपाते | केनचिच्छिखी ज्वलनः प्राप्यते तथा मया कलौ त्वत्पादाब्जरजःकणः प्राप्त इति । समुचिता सेयं दृष्टान्तचतुष्टयी स्वामिनस्तथाहि मिथ्यात्वनिश्यज्ञानान्धतमसमोहितमनसां केवलालोकप्रदीपो भगवान्, भवाब्धौ च निमज्जतामाश्वासनाद्वीपः, आन्तरारातितपनोपतप्तानां च विश्रामशाखी, निबिडतममोहजडिमग्लपितानां च शिखी चेति समञ्जसम् ॥ ६ ॥ यथा स्वकार्यतात्पर्येण हि प्रायः पर्यवस्यत एव सदसद्विचारस्तत एव स्तुतिकृन्निरुपकारि युगान्तरपरिहारेणोपकारिणं कलिमुपच्छन्दयन्नाह ॥ युगान्तरेषु भ्रान्तोऽस्मि त्वद्दर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वद्दर्शनमजायत ॥ ७ ॥ विश्वजनीनकृतधियस्तत्तद्गुणोपबृंहणेन सुषमादियुगानां गौरवमारोपयन्तु मम कलिव्यतिरिक्तेषु युगान्तरेषु उदा| सीनमेव मनः । किमित्याह - यतस्तेष्वहमनन्तमनेहसं भ्रान्तः पर्यटितोऽस्मि । किंभूतस्त्वद्दर्शनविनाकृतः तव संबन्धिदर्शनं त्वदुक्ततत्त्वरुचिरूपं त्वदर्शनं तेन विनाकृतो वञ्चितः अतः कृतयुगादिभिः परविभूतिपरिस्पन्दैरिव सुमनसोहरैरप्यनुयोगिभिः किं ? यद्वास्तां तावत्तव सेवाफलं, किन्तु त्वदर्शनमात्रमपि मम नोपपन्नम् । अस्मै तु कलये सकलदोष कलुषायापि नमोऽस्तु नमस्कारो भवतु, यत्र यस्मिन् भवशतसहस्रदुर्लभं सुकृतशतप्राप्यं मम त्वद्दर्शनमजायत । अयमाशयः । किल यदि युगान्तरेषु मम त्वद्दर्शनमभविष्यत्तदा न खल्वहमियन्तं कालं भवभ्रमणमकरिष्यमिदानीं तु प्राप्तत्वद्दर्शने दत्तो दीर्घभवभ्रमणाय मया जलाञ्जलिरिति ॥ नच कृतयुगादिभ्य एव कलिः कमनीयः किन्तु भगवतोऽपीति सोपहासमाह ॥ For Private & Personal Use Only सविवर. ॥३७॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy