________________
सञ्जज्ञिरे तद्वयमस्मै वामकेलये प्रकृतिप्रतिकूलविलसिताय कलये दुःषमासमयाय वृथैव निरर्थकमेव कुष्यामः सर्वथा न कश्चित् कलेरपराधः केवलं परगुणासहिष्णुता प्रकृतिरेवेयं स्वभावदुःशीलानां खलानामिति ॥ अपरं च ॥
कल्याणसिद्ध्यै साधीयान् कलिरेव कषोपलः । विनाग्निं गन्धमहिमा काकतुण्डस्य नैधते॥५॥ हे अतुल्यकल्याणनिलय भगवन्नदंयुगीनभव्याङ्गिनां कल्याणसिद्ध्यै शुभसंभारसमृद्ध्यै कलिर्दुःषमैव साधीयान् प्रधानतमः कषोपलः कषपाषाणः । किमुक्तं भवति-किल सकलशुभसामग्रीसंवर्गितेषु सुषमादियुगेषु भव्यानां सुकरैव सुकृतसंसिद्धिः, येषां तु सामग्रीविरहेऽपि कल्याणकृत्यसंसिद्धिनिमित्तमुपक्रमस्तेषां सत्काञ्चनपरीक्षायां कलिरेव कषोपलः । अथ च कल्याणस्य सुवर्णस्यापि सिद्धिः परीक्षा कषपाषाणाधीनैव । अत्रैवार्थान्तरमाह ॥ विनेत्यादि । काकतुण्डस्य कृष्णागरोगन्धमहिमा परिमलप्रभावोऽग्निं वैश्वानरं विना नैधते न वृद्धिमुपयाति अतो यथा कृष्णागरुपरिमलमग्निरेधते तथा सत्त्ववतां सत्त्वप्रकर्ष कलिरुत्कर्षयतीतिभावः ॥ अन्यच्च ॥ | निशि दीपोंबुधौ द्वीपं मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं त्वत्पादाजरजःकणः ॥६॥ __ हे विश्वकवत्सल कलौ कलियुगेऽयं त्वत्पादाजरजःकणस्त्वच्चरणसरोजनिश्छद्मसेवालवः कथंकथमपि मया प्राप्तः । यतो दुरापः अगण्यपुण्यप्रचयमन्तरेण दुर्लभः । अमुमेवार्थ दृष्टान्तचतुष्टयेन स्पष्टयति । निशीत्यादि । यथा केनचित्कायार्थिना तमस्विन्यां निशि प्रदीपः प्राप्यते, यथा च कस्यचिदगाधजलधिमध्यपतितस्य द्वीपः सङ्घटते, यथा केनचि
Jain Educataru
For Private
Personal Use Only