SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥३६॥ श्राद्धः श्रोता सुधीर्वक्ता युज्येयातां यदीश तत् । त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ॥३॥ || सविवर. हे जगदीश त्वच्छासनस्य तवाप्रमेयप्रभावस्य प्रवचनस्य कलौ दुःषमायामपि साम्राज्यं चक्रवर्तित्वं जायेत । किंविशिष्टं एकच्छत्रमेकातपत्रं । यदि किं! यदि युज्येयातां युक्तौ भवेतां, को श्रोता वक्ता च, किंविशिष्टः श्रोता श्राद्धः निरु|पाधिशुद्धश्रद्धाबन्धुरान्तःकरणः । वक्ता तु सुधीः शोभना समस्तशास्त्रार्थरहस्यनिस्यन्दावगाहविशदा धीस्तत्त्वानुगामिनी मतिर्यस्य स तथा । दुर्लभश्च प्रायेणैवंविधयोः श्रोतृवक्रोर्योगः । यदि च दैवात्संयुज्येयातां तदा नियतमहच्छासनस्य साम्राज्यमेकच्छत्रं रचयेताम् । इदं च स्तुतिकर्तुरनुभवसुभगं वचस्तथाहि-निरवधिनयविक्रमवशंवदीकृतसकलक्ष्मापालचक्रपालः श्रीकुमारपालदेवः श्राद्धः श्रोता, युगान्तर्वतिसकलवाङमयपारावारपारीणमतिः श्रीहेमचन्द्रसूरिः सुधीवक्ता, तथाविधविधियोगाच्चानयोः समजनि संयोगः, कृतं कलावपि श्रीजिनशासनसाम्राज्यमाभ्यामिति स्थाने स्वानुभवसुभगमिदमुदीरितमिति ॥ किंच॥ । युगान्तरेऽपि चेन्नाथ भवन्त्युच्छृङ्खलाः खलाः । वृथैव तर्हि कुप्यामः कलये वामकेलये ॥ ४ ॥ हे प्रणयप्रणमदमरनाथ वयमियन्ति दिनानि कलियुगेन समं कलिकामा इव सासूयमवस्थिताः । कुतः किलैतद्वललब्धसामथ्र्यैः कुतीर्थिभिस्तीर्थनाथादिविरहादनाथा इव वयं कदर्थ्यामहे ।साम्प्रतं त्वान्तरदृशा विमृशतामस्माकमिदमवस्थित हृदि यदुत युगान्तरे साक्षादर्हद्विहारादिविक्षिप्तविपक्षे सुषमादावपि चेद्यदि मङ्खलिसुतादयः खला उच्छृङ्खला उन्मर्यादाः ICCRORECAREERSCIOUSNESS JainEducatiori For Private & Personal use only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy