________________
Jain Education
एवमेकान्तमततिमिर निरसनप्रवणानेकान्तामृताञ्जनविशददृशः समस्तास्तिकदर्शनिनो विधाय स्तुतिकृत् प्रस्तुता वीतरागस्तुतिं कलिकालोपबृंहणद्वारेण प्रस्तावयन्नाह ॥
यत्राल्पेनापि कालेन त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु कृतं कृतयुगादिभिः ॥ १ ॥
हे कलिकालदहनन स्वामिन् जगति स एवैकः कलिर्दुः षमाख्यः कालः समयोऽपि कृतयुगादिभिः सुषमादिभिस्तु कृतं पर्याप्तं । किमित्याह यत्रेत्यादि । यत्र यस्मिन् कलौ त्वद्भक्तेः सम्यग्ज्ञानदर्शन चारित्रासेवनरूपायाः फलमनन्तरितं स्वर्गादि परम्परितमपवर्गोऽवाप्यते । ननु कृतयुगादिष्वपि समानमेतदित्याह । अल्पेनापि समयेन । किमुक्तंभवति । किल सुषमादौ वर्यावन्मात्रं फलं पूर्वकोटिप्रमितेनायुपा प्राप्यते दुःषमायां तत्कालप्रमितं त्वद्भक्तेः फलं वर्षशतप्रमाणेनाप्यायुषा लभ्यत इति कृतयुगादिभ्यः कथं कलिर्न स्पृहणीय इति ॥ तथा ॥
सुषमातो दुःषमायां कृपा फलवती तव । मेरुतो मरुभूमौ हि श्लाध्या कल्पतरोः स्थितिः ॥२॥ हे प्रक्षीणाशेषदुःख भगवन् सुषमातः सुषमारकात् दुःपमायां दुःषमारके तव संबन्धिनी कृपा सर्वसत्त्वधारिणी करुणा फलवती सर्वाशेषफला भवति । अत्रार्थान्तरमाह । कल्पतरोः कल्पपादपस्य स्थितिरवस्थानं मेरुतः सुरभूधरात् मरु - भूमौ जाङ्गलावनितले श्लाघ्या प्रशस्या । इदमुक्तं भवति । भूरिभूधरे हि सर्वत्रापि सुलभसुरभूरुहि कल्पविटपिनोऽवस्थानं न तथा विस्मयं जनयति यथा करीरादिभिरपि विरहिते मरुस्थले । एवं सुषमादौ पदे पदे सुलभेषु विशिष्टज्ञानभानुषु पुरुषेषु भगवत्कृपा धर्मतीर्थप्रवर्त्तनादिरूपा न तथोपयोगिनी यथा सर्वातिशयशून्ये दुःषमासमय इति ॥ किंच ॥
tional
For Private & Personal Use Only
w.jainelibrary.org