SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥७२॥ Jain Education स्वयं ० स्वयमात्मना मलीमसा चारैर्मलिनाचारैर्लोकानां विप्रलम्भनप्रभुभिः परैर्ब्रह्मादिभिर्देवैर्यज्ञादिरतैर्गुरुभिश्चैतज्जगदपि वश्यते तेन वयं त्वां विनाऽन्यस्य कस्य पुरः पूत्कुर्महेबुब्बां कुर्मः ॥ ६ ॥ नित्यमुक्तान् जगज्जन्मक्षेमक्षयकृतोद्यमान् । वन्ध्या स्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ॥ ७ ॥ नित्य० तथा हेवीतराग ! कश्चेतनः सुधीः देवांस्त्वदन्यान् श्रयेत् कथंभूतान् ? नित्यमुक्तान्सर्वदापि कर्म्मरहितान् पुनः किंविशिष्टान् ? जग० जगतो जन्मोत्पादनं, क्षेम पालनं, क्षयः संहारस्तेषु कृत उद्यम उपक्रमो यैस्तान्, यदि नित्यमुक्तास्त| हिं कथं जगद्व्यापारपरा इत्येवंविरोधः । अत एव कथम्भूतान् वन्ध्यासुतसदृशानसत इत्यर्थः ॥ ७ ॥ अथ श्लोकद्वयेन तद्भक्तस्वरूपमाह - कृतार्था जठरोपस्थदुः स्थितैरपि दैवतैः । भवादृशान्निहुवते हाहा देवास्तिकाः परे ॥ ८ ॥ कृता० हेवीतराग! जठरमुदरमुपस्थेन्द्रियवर्गस्ताभ्यां दुःस्थितैर्विह्वलैरपि दैवतैः कृतार्थाः कृतार्थमन्या अन्ये जना भवादृशान् त्वत्सदृशान् गुणैरुत्कृष्टान् निह्नवतेऽपलपन्ति हाहेति खेदेऽपरे द्विजादयो देवास्तिका देवविषयास्तावन्त इत्युपहासः ॥८॥ पुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥ ९ ॥ ayo वीतराग ! परे परवादिनः खपुष्पप्रायमाकाश कुसुमकल्पमुत्प्रेक्ष्य स्वचेतसि विचार्यैक एव हि भूतात्मा भूते भूते व्यवस्थित इत्यादि किञ्चिन्मानं प्रमाणं स्वचिन्तनसाधकं प्रकट्य प्रकाश्य च गेहेनर्दिनो गेहेशूराः सन्तो गेहे स्वदर्शने देहेऽपि मदोद्रेकेण न संमान्ति ॥ ९ ॥ For Private & Personal Use Only 66 अवचू. ॥७२॥ w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy