SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ - S achikAMSAGAROSAROKAR दृशः । एवं सति परीक्षकैर्देवत्वेन देवोऽयमितिबुद्ध्या कथं प्रतिष्ठाप्यः केन प्रकारेण हृदि व्यवस्थाप्य इति । तदेव दृष्टान्तेन स्पष्टयति अनुश्रोतः सरत्पर्णतणकाष्ठादि: प्रतिश्रोतः श्रयद्वस्तु कया युक्त्या प्रतीयताम् ॥७॥ ___ अनुश्रोतः सलिलप्रवाहं प्रति प्रस्तारेण सरत्संचरत् पर्णतृणकाष्ठादिवस्तु युक्तिमत् प्रत्यक्षप्रमाणप्रतिष्ठितत्वेन सर्वस्याप्यनुभवसिद्धत्वेन च यौक्तिकं, प्रतिश्रोतः सलिलप्रवाहात् प्रतीतं तु पर्णतृणादिवस्तु श्रयत्प्रवहत् कया युक्त्या केन प्रमाणवलेन प्रतीयतां निश्चीयताम् ! । एवं वर्तमानदेवलक्षणविलक्षणे त्वयि कथं देवत्वबुद्धिरुपजायतामिति ॥ एवंस्तुतिकृदसंविदान इव भगवत्स्वरूपं बहिर्मुखपरीक्षकपक्षकक्षीकारेण किमपि परुषप्रायमभिधाय भूयःस्वभावोक्तिं व्यनक्ति अथवालं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगद्गुरो? ॥ ८॥ अथवेति पूर्वोपक्षिप्तार्थोपसंहारे। हे जगद्गुरो! भुवनमहनीयामीभिः पूर्वोदितैर्मन्दबुद्धिपरीक्षकपरीक्षणैर्निर्विचारकविचारप्रकारैरलं पर्याप्तं, सर्वथैव त्वय्यनुपपन्नत्वात्तेषां । तथा ममाप्येतेन पूर्वोदितेन प्राकृतजनोचितेन वैयात्येन परीक्षावैदग्ध्यधार्थेन कृतं पर्याप्त, मनसाप्येवमसत्प्रलापस्य त्वयि चिन्तयितुमनुचितत्वात् । ननु यदि पूर्वोदितानि देवलक्षणानि न तथा क्षोदक्षमाणि तकिमन्यत्तदुपलक्षणाय लक्षणान्तरं मृग्यमित्याह यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ ९॥ Jain Education a l For Private Personal Use Only R ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy