SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सविवर. वीतराग. हे स्वामिन् ! यदेव सर्वसंसारिजन्तुरूपेभ्यः समस्तभवस्थशरीरिशरीरेभ्यो लोकोत्तरत्वेन विसदृशं, कृतधियो विद्वांसस्त देव तव लक्षणं परीक्षन्तां। किमुक्तं भवति ! किल यानि परैः पक्षिपशुवाहनादीनि देवचिह्नत्वेनोदीर्यन्ते तानि सर्वसंसारि॥५७॥ जन्तुसाधारणानि, असाधारणगुणैश्च देवत्वमुपपद्यते । अत एव भगवान् विमुक्तसर्वसङ्गत्वेन न पक्षिपशुप्रभृतिष्वासीनदे-IN हस्तत एव मुक्तः। वाहनाधीनतनवस्तु सपरिग्रहत्वेन संसारिण एव । तथा सर्वोत्तमसमचतुरस्रसंस्थान एव भगवान्, नतु | नेत्रादिविकृतिमान , प्रोषितद्वेषत्वेन च शूलादिशस्त्ररहितः, विगतरागत्वेन च नाङ्गनालिङ्गिततनुः, अगर्हणीयचरितत्वेन च । विश्वविश्वानन्ददायी, परमसमभावभावितत्वेन च प्रकोपप्रसादादिभिर्न विडम्बितः, निष्ठितार्थत्वेन च न जगत्सर्गादिव्य ग्रः, निर्मोहत्वेन च न लास्यहास्यादिभिरुपप्लुतः। पूर्वोदितस्वरूपाश्च परे । एवंविधं च यदिदं समस्तसंसारिरूपविलक्षणदूत्वं तदेव तव लक्षणमिति ॥ एतदेव स्पष्टयन्नुपसंहरति | क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरोमृदुधियां वीतरागः कथञ्चन ॥ १०॥ । PI क्रोधलोभभयादिभिः प्रतीतैरन्तरारातिभिरिदं जगदाक्रान्तं । भगवांस्त्वस्माजगतः क्रोधादिभिरनाक्रान्तत्वेनैव विल-15 क्षणो विसदृशः । अत एव वीतरागत्वेनैव कथञ्चन केनाप्युपायेन मृदुधियां कोमलप्रज्ञानां बहिर्मुखाणामगोचरस्तदनुर-16 हैाहीतैरन्तर्मुखरेव तस्योपलभ्यत्वादिति ॥ ५ इति वीतरागस्तोत्रे अष्टादशस्य कठोरोक्तिस्तवस्य पद्योजना ॥ ॥५ ॥ Jain Education For Private & Personal Use Only Codjainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy