SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ CARE SAXA -CROSSRXARAGE एवं जगद्विलक्षणैर्लक्षणरुपलक्षितोऽपि भगवान् यदाराधनेन स्वाराधितो भवति तां भगवदाज्ञामाज्ञास्तवेन स्तुतिकृत प्रस्तौति-तस्य चायमाद्यश्लोकः | तव चेतसि वर्तेऽहमिति वार्तापि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥ १॥ हे विश्वजनीन! किल भृत्यो हि नि कृत्रिमभक्तिक्रमेण सङ्कामत्येव स्वामिनश्चेतसीतिलोकस्थितिः, त्वयि तु लोकोत्तर-18 चरिते दुर्घटमिदमित्याह-तव संबन्धिनि विगतरागे चेतसि यदहं वर्ते निवसामि इत्येवंरूपा वार्तापि दुर्लभा दुष्प्रापैव, केवलं मदायत्ते मच्चित्ते चेद्यदि त्वं वर्तसे निरन्तरमधिवससि तदा ममान्येन त्वच्चेतसि स्वनिवसनादिना केनचिन्मनोर थेनाप्यलं पर्याप्तं । मच्चित्ते त्वन्निवासमात्रेणैव कृतकृत्योऽहमिति भावः॥ किमर्थमियतैव चरितार्थ इति चेदाहद निगृह्य कोपतः काँश्चित् काँश्चित्तुष्ट्याऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥ २॥ | यतः कारणात् हे स्वामिन् ! अमी त्वच्छन्यमनसो मृदुधियः परैरवीतरागदेवैः प्रतार्यन्ते विप्लाव्यन्ते कथमित्याहतत्समक्षं काँश्चिदात्मप्रतिकूलान् कोपतः क्रोधोद्वोधात शापवधादिभिर्निगृह्य । तथा काँश्चिदात्मनोऽनुकूलांस्तुष्ट्या प्रसादेन| वरादिप्रदानादनुगृह्य । किंविशिष्टैः परैः! प्रलम्भनपरैः वञ्चनप्रपञ्चचतुरैः। किमुक्तं भवति ! किल मृदुधियो ह्यायतिमनालो-18 च्य तात्कालिकी तेषां निग्रहानुग्रहशक्तिमनुचिन्त्य भीत्या प्रीत्या च तदनुवर्त्तनतत्पराः पतन्त्येवागाधे संसृतिपाथोधौ, हे त्वया च विश्ववत्सलेनालयते चेतसि न प्रभवति तेषां प्रतारणेति त्वयि चित्तवासिनि कृतकृत्य एवाहम् ॥ HaskGUSAREERCRACTRICARRIGARSA Jan Education For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy